SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६२ शक्रो भाषिष्यते नैते किञ्चिद्दास्यन्ति निर्ममाः । तं मुञ्चामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ।। ६२० ।। जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भटाः ! । अपसारयत क्षिप्रं विप्रं धृत्वा गले दृढम् ।।६२१।। " ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमन्दिरम् । चपेटामुत्कटां दत्त्वा द्राग् भस्मसात् करिष्यति ।। ६२२ ।। , आयुः संपूर्य राजाऽसौ षडशीतिसमास्ततः । , भविष्यति दुरन्तायां, नारको नरकावनी ||६२३ ।। दत्ताख्यं कल्किनः पुत्रं, विधाय परमार्हतम् । स्थापयित्वा च तद्राज्ये, सङ्घं नत्वा गमी हरिः ।। ६२४ ।। दत्तो धम्मैकचित्तोऽथ पितुः पापफलं स्मरन् । करिष्यति महीमेनां, जिनायतनमण्डिताम् ।।६२५ ।। " जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः । । ६२६ ।। " श्रीश्रेणिकचरित्रम् । भविताऽन्यान्यभूपानां यावद् विमलवाहनः । भविता दुष्षमारान्ते तावद् धर्म्मश्च संततम् ।।६२७ ।। इदं च भरतक्षेत्रमर्हत्काले पुराऽभवत् । ग्रामारामपुराकीर्णं, श्रिया स्वर्लोकसन्निभम् ।।६२८ ।। ग्रामा नगरवद्रम्याः, स्वःपुराणीव तानि तु । कुटुम्बिनो नृपौपम्या, नृपास्तु धनदोपमाः ।।६२९।। आचार्याश्चन्द्रमस्तुल्याः, पितरो देवतानिभाः । जननीजनकश्वश्रूश्वशुरा जनका इव ।।६३० ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy