SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३६ किमेतदिति सम्भ्रान्तः, प्रणिपत्य महीपतिः । प्रभुं पप्रच्छ विश्वेश !, कुष्ठी कोऽसौ ? निवेद्यताम् ।।३३९ ।। श्रीश्रेणिकचरित्रम् । भगवानप्युवाचैवं वत्सदेशेऽस्ति पूर्वरा । " कौशाम्बीति नृपस्तस्यां शतानीको महाबलः । । ३४० ।। " तत्र सेडुबको नाम, द्विज्ञो दारिद्र्यविद्रुतः । सोऽन्तर्वत्न्याऽन्यदा पत्न्या, प्रोचेऽर्पय घृतादिकम् ।। ३४१ ।। तेनोचे नास्ति मे किञ्चित्, तद्विज्ञानं वचस्विनि ! । येनानुरञ्जितो दद्याद्दाता घृतगुडादिकम् ।।३४२ ।। तयोक्तं भज राजानं, स दद्याद्येन सम्पदम् । सिषेवे स ततो भूपं नित्यं पुष्पफलादिभिः ।। ३४३ ।। जगदे सोऽन्यदा राज्ञा, किं ते विप्र ! प्रदीयताम् ? । प्रार्थयिष्ये प्रियां पृष्ट्वेत्याख्याद् विप्रोऽपि पार्थिवम् ।। ३४४ ।। ततोऽसौ स्वगृहे गत्वेत्यूचे मेऽद्य महीपतिः । परितुष्टः प्रदत्ते तत्, कमर्थं प्रार्थये प्रिये ! ।।३४५।। सा प्राहाग्रासने भुक्ति, दीनारं दक्षिणाकृते । याचस्व भूपतिं भद्रोत्सारकं च दिने दिने || ३४६ ।। गत्वा तद्याचितं तेन राज्ञाऽपि तत् प्रतिश्रुतम् । , उदङ्कः पतितोऽप्यब्धौ बिभर्त्ति स्वोचितं जलम् ।। ३४७ ।। प्रत्यहं तस्य तत्सर्वं कुर्वन्तं वीक्ष्य भूपतिम् । सामन्ताद्यास्ततो दध्युः, पूज्योऽयं राजवल्लभः । । ३४८ ।। ततोऽभोज्यत तैर्भीतैर्दक्षिणां ग्राह्यते स्म सः । वान्त्वा वान्त्वा द्विजो लोभादबोभोजीद् गृहे गृहे ।। ३४९ ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy