SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २४ श्रीश्रेणिकचरित्रम् । आकीटादासुरेन्द्राच्च, कृतान्तस्य न कोऽप्यलम् । ततः किं क्रियते शोकः, स यत् स्वार्थविनाशकः ।। २०८ ।। जलाग्निव्यालचौरारिरुजाद्यार्त्तेऽपि भूतले । यद् जीव्यते तदाश्चर्यं निमेषमपि मानवैः ।।२०९।। किञ्च यैः कर्म्मभिर्मृत्योरवस्कन्दः पतेत् क्षणात् । यतितव्यं तदुच्छित्त्यै, न तु शोच्यं विवेकिभिः ।। २१० ।। नागस्य सुलसायाश्च कृत्वा संभाषणमिति । अभय: श्रेणिकश्चापि, निजं धाम समेयतुः । । २११ ।। यथेष्टं श्रेणिकेनाथ, धारिणीप्रमुखास्ततः । बह्व्योऽपि हि सुरूपिण्यः, परिणिन्ये नृपात्मजाः । । २१२ ।। अदाच्च चेल्लणादेव्याः, एकस्तम्भविभूषितम् । दिव्योद्यानपरिक्षिप्तं, प्रासादं देवनिर्मितम् ।।२१३।। ततोऽसौ बुभुजे भोगांस्तत्रस्थः सममेतया । वर्यान् वरविमानस्थः, 'पुलोम्येव पुरन्दरः । । २१४।। सोऽथ श्येनकजीवस्तु, व्यन्तरत्वात् परिच्युतः । उदरे चेल्लणादेव्याः, पुत्रत्वेनोदपद्यत ।। २१५।। निदानवशतस्तस्मिन्, गर्भे वृद्धिमुपेयुषि । पतिमांसादने देव्या, दोहदः समजायत ।।२१६।। न शशाक समाख्यातुं, देवी कस्यापि तं पुनः । अपूर्णदौहदत्वेन, क्षीयते च क्षणे क्षणे । । २१७।। दृष्ट्वा कृशाङ्गीं तां देवीं पप्रच्छ श्रेणिकोऽन्यदा । क्षीयसे देवि ! देहेनान्वहं क्षयरुजेव किम् ? ।।२१८ ।। १. पौ.
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy