SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १६ भूयानपि जनोऽभ्यागादादातुं स्वकरेण ताम् । किन्तु कुब्ज इवाशक्तः फलमत्युच्चशाखिनः ।। १२० ।। इतश्च तस्या नन्दायाः, अन्यदा दोहदोऽभवत् । रान्ती दानं गजारूढा भ्रमाम्यभयदा पुरे ।। १२१।। " " पित्रा नृपमनुज्ञाप्य तस्याः सोऽपूरि दोहद: । कालेनासूत सा सूनुं, रत्नं वैडूर्यभूरिव ।।१२२ ।। कृत्वा मातामहस्तस्य, महान्तं जननोत्सवम् । सूनोरभय इत्याख्यां दोहदानुसृतेर्ददौ ।।१२३॥ " , श्रीश्रेणिकचरित्रम् | ववृधे लाल्यमानोऽसौ धात्रीभिः पञ्चभिः क्रमात् । रूपलावण्यसौभाग्यैः, कलाभिर्नव्यचन्द्रवत् । । १२४ ।। कलाचार्यस्य भद्रेणार्पितो भद्रदिने सूनुः । द्राक् तेनाबोधि दीपेन, दीपवत् सकलाः कलाः । । १२५ ।। विनीतमुद्यतं शान्तं धीमन्तममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ।। १२६ ।। एकान्ते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किं ते गुणान्तरैर्यस्य, पिता विज्ञायते नहि ? ।।१२७।। अभयोऽप्याह भद्रो मे पिताऽस्ति विपणौ स्थितः । स प्राह ननु ते मातुः, पिता भद्रो न ते पुनः ।। १२८ ।। गत्वोपनन्दमानन्दमुक्तो नान्देय ऊचिवान् । ब्रूहि मातः ! पिता को मे ?, साऽपि भद्रमचीकथत् ।। १२९ ।। अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे ? निवेद्यताम् ।। १३० ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy