SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः ] चन्द्रप्रभचरितम् । ध्यायन्गुरून्गुणगुरून्हृदयेन पञ्च प्राणान्समाधिमरणेन मुनिर्मुमोच ॥ ७२ ॥ प्राप्याच्युतं सपदि कल्पमथाच्युतेन्द्रो' भूत्वा सरोजनयनो नयनाभिरामः । सम्यक्त्वरत्न रुचिरोऽनुभवन्स तस्थौ दिव्यं सुखं द्यधिकविंशतिसागरायुः ॥ ७३ ॥ च्युत्वा ततो विगलितायुरसाविहाभू स्त्वं रत्नसंचयपुरे नृप पद्मनाभः । पुत्रो जगद्विजयिनः कनकप्रभस्य माता च ते जनमनोज्ञ सुवर्णमाला || ७४ ॥ जन्मावलीमिति यथावदसौ निगद्य तूष्णीमभून्मुनिपतिर्मुनिवन्द्यपादः । राजापि पूर्वभवकीर्तनहृष्टरोमा बद्धाञ्जलिर्मुनिवृषं पुनरित्युवाच ॥ ७५ ॥ जन्मान्तराणि भगवन्भवतः प्रसादाज्ज्ञातानि संशयमुपैति तथापि चेतः । तत्प्रत्ययं कमपि नाथ कुरुष्व येन निःसंशया भवति धीर्मम संशयाना ॥ ७६ ॥ तद्भारतीमिति निशम्य जगाद भूपं संदेहपङ्कमपहस्तयितुं मुनीन्द्रः । यूथं त्वदीयनगरे दशमेऽह्नि हित्वा दन्ती मदान्धमतिरेष्यति कश्विदेकः ॥ ७७ ॥ तत्प्रत्ययात्स्वयमिदं न चिरेण राज निश्चेष्यसि त्वमखिलं वचनं मदुक्तम् । प्रत्यक्षमन्यदथवा जगति प्रमाणं संवादकं मतिमतां सकलं प्रमाणम् ॥ ७८ ॥ चन्द्र० ९ ८९
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy