________________
९ सर्गः]
- चन्द्रप्रभचरितम् । श्रवणतटविलम्बि संविधत्ते नयनयुगं न किमेतदीयशोभाम् ।। वरतनु विफलक्रियं विधातुं यदसितमुत्पलमुद्यतासि कर्णे ॥ ८ ॥ चिरयसि परमेव निक्षिपन्ती रसमतिसान्द्रमलक्तकस्य कान्ते । । ननु किसलयभासि रागबन्धस्तव पदपद्मतले निसर्गसिद्धः ॥ ९ ॥ लघु जिगमिषुणेति काचिदूचे खवपुरलंकरणाकुला प्रियेण । प्रतिपदमवगच्छता तदीयं जघनमहाभरविनितं प्रयातम् ॥ १० ॥ सकृदबुधतया कृतेऽपराधे भवति ततो विनिवृत्तिरेव दण्डः । तदहमपि न तं पुनर्विधास्ये सुतनु तवेति स वल्लभो ब्रवीति ॥ ११ ॥ अपि च सुवदने नरो न दोषाद्विरमति शिक्षयते न यावदन्यः । स च कुसुमशरेण शिक्षितस्त्वद्विरहसखेन निनीषुणा विनाशम् ॥१२॥ न च सखि सुसहस्त्वयापि तावप्रियविरहः क्षयहेतुरङ्गयष्टेः । कथयति हि तवोष्ठबिम्बमुष्णश्वसितविरूक्षतमान्तरङ्गमाधिम् ॥ १३ ॥ त्यज मम विरहोऽधुनेव पश्चादपि न रुजाकर इत्यपि खमानम् । नहि भवति यथास्थिरं क्रियादावधिकृतनिर्वहणे तथैव चेतः ॥ १४ ॥ इति हितमधुरैरिवाहिमन्त्रैरपहृतमानविषा सखीवचोभिः । दयितमनुजगाम मन्दमन्दं निहितपदा किल नेच्छतीव काचित्॥१५॥
(कुलकम्) स्मरपरवशबुद्धिरंसपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्रः । गजपतिरिव मन्थरेण कश्चित्समुपजगाम शनैः पदक्रमेण ॥ १६॥ कृतमनसिजवेगमूरुयुग्मं पथिजपरिश्रमनोदनापदेशात् । मुहुरलसगतेः स्पृशन्प्रियायाः समुपययावपरोऽल्पकेऽपि मार्गे ॥ १७ ॥ इति कृतविविधप्रकारचेष्टा मनसिशयाकुलचेतसः सभार्याः । विविशुरुपवनं पुरः प्रयातक्षितिपतिसेवितकृत्रिमाद्रि पौराः ॥ १८ ॥ तटविटपशिखावसक्तहस्ताश्चिरमनुपात्तनिमेषनेत्रयुग्माः। फलकुसुमसमृद्धिमीक्षमाणा हरिणदृशो वनदेवता इवाभुः ॥ १९ ॥ सति निजकरजारुणांशुभिन्ने जरठपलाशचये महीरुहाणाम् । समजनि वनिताजनस्य हेतुर्मदिमगुणो नवपल्लवावबोधे ॥ २० ॥