SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः ] चन्द्रप्रभचरितम् । कार्यस्त्वया स्मरनिवासनितम्बचुम्बी चीनांशुकेन पिहितो निजकेशपाशः ॥ ५४ ॥ माधुर्यमिच्छुरतिशायि परिग्रहीतुं चूताङ्कुरग्रसनजातकषायकण्ठः । मूकीभवन्परभृतां निवहोऽपि नून माकर्णयिष्यति तवानतगात्रि वाणीम् ॥ ५५ ॥ तत्र त्वदीयचरणाम्बुजताड्यमानौ द्वौ यास्यतः सुवदने सदृशीमवस्थाम् । सद्यो वहन्मुकुलजालमशोकशाखी रोमाञ्चकञ्चुकितमूर्तिरहं द्वितीयः ॥ ५६ ॥ गत्या निसर्गपरिमन्थरया भ्रमन्तीं त्वां संनिरीक्ष्य निवसद्वनदीर्घिकासु । हँसीकुलं न हरिणाक्षि जनिष्यते न त्वच्छिष्यभावगमने स्पृहयालु मन्ये ॥ ५७ ॥ हस्तेन सुन्दर मुहुर्विनिवारितोऽपि भृङ्गस्तवाधरले नवविद्रुमाभे । धावन्नशोकनवपल्लवशङ्किचेताः स्मेरं करिष्यति न कस्य मुखं वनान्ते ॥ ५८ ॥ पर्यन्तजाततरुजालनिरुध्यमान भाखत्करेष्वपि वनान्तलतागृहेषु । त्वद्वत्रचन्द्ररुचिभिः प्रतिहन्यमानो मुग्धाक्षि नः परिभविष्यति नान्धकारः ॥ ५९ ॥ दृष्टेर्मदालिषु लतासु शरीरयष्टे रूर्वोर्विचित्रकदलीष्वधरस्य बिम्बे । संवाहिताङ्घ्रियुगला खसखीजनेन सादृश्यमिन्दुवदने विहरेक्षमाणा ॥ ६० ॥ 9 ७१
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy