SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] चन्द्रप्रभचरितम् । प्रागतीव मनसा समुदा यस्तस्थिवान्विरहिणीसमुदायः । सोऽतिदुःसहमनोभवदूनो माधवे सुखितयाभवदूनः ॥ ३५ ॥ कामशोकजलधेरुदितानि संहरालि सततं रुदितानि । मेरुभूधरसदृक्षममुक्तं धैर्यमापदसनक्षममुक्तम् ।। ३६ ॥ यस्तवावधिरकारि वसन्तः प्रेयसा निजगुणैरिव सन्तः । यत्र भान्ति कुसुमैरमलाभैः शाखिनो जनमनोरमलाभैः ॥ ३७॥ विप्रयोगकृशदारहितेन चेतसा कठिनतारहितेन । उत्सुको नहि विकासमयन्तं सोऽतिवर्तितुमलं समयं तम् ।। ३८ ॥ रक्ष तद्वपुरिदं नियमेन मा विधेहि लघुहानि यमेन । रम्यसेऽल्पदिवसैः सह तेन स त्वदीयविरहं सहते न ॥ ३९ ।। मन्ददीप्तिरसुखावहमाना जीविते शिथिलतां वहमाना। । दूरदिक्पतिरपोहितमाल्या काचनेति जगदे हितमाल्या ॥ ४०॥ (पञ्चभिः कुलकम् ) दारुणा विरचना भृकुटीनां साम्यमावहति सुभ्र कुटीनाम् । बिभ्रति प्रियतमे तव दास्यं कोपनं किमिति जातवदास्यम् ॥ ४१॥ का धृतिस्तव रतेन विना मे नोद्यताञ्जलिरहं न विनामे । किं वृथैव मयि मानममाने संतनोति भवति नममाने ॥ ४२ ॥ कान्तिवारिणि नभोवदनन्ते मग्नमम्बुजनिभं वदनं ते । पातुमुत्सुक इव भ्रमरोऽहं जायमानबहुविभ्रमरोहम् ॥ ४३ ॥ मन्मनः सुतनु भीमंदनेन बाध्यमानमनिशं मदनेन । वर्तते भज रुषस्तनिमानं मुञ्च पीवरतरस्तनि मानम् ॥ ४४ ॥ काचिदित्थमुदिता दयितेन प्रेम सार्धमकृतोदयि तेन । कं वचांसि रसभारचितानि प्रीणयन्ति न बुधै रचितानि ॥ ४५ ॥ (पञ्चभिः कुलकम् ) १. आपन्निवारणसमर्थम्. २. विद्वांस इव निजगुणैः. ३. यमेन शीघ्रनश्वरं वपुर्मा विधेहि. ४. दूरदिशि पतिर्यस्याः. ५. कर्कशा काष्ठेन च. ६. जातं मुखम्. ७. प्रह्वीभावे. ८. आकाशवदनन्ते लावण्ये. ९. भययुक्तम्. १०. उदययुक्तं प्रेम.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy