________________
७ सर्गः]
चन्द्रप्रभचरितम् ।
रेन्धनद्धनिबिडादिभेदतो भिद्यमानवपुरुत्तमोत्तमम् । वाद्यवस्तु सुखकारि कर्णयोस्तस्य शङ्खनिधिना व्यतीर्यत ॥ २२ ॥ चित्रनेत्रपटचीनपट्टिकारलकम्बलपटीपटादिकम् ।
वस्त्रजातमखिलं महागुणं चित्तहारि विततार पद्मकः ॥ २३ ॥ कम्रताम्रतपनीयनिर्मितं त्रापुषं रजतलोहसंभवम् । मन्दिरोपकरणं ददौ महातालनामनिधिरेवमादिकम् ॥ २४ ॥ प्राससायकरथाङ्गमुद्गरं शक्तिशङ्कतरवारितोमरम् । शस्त्रजालमिदमादि माणवः शात्रवघ्नमददादुरुप्रभम् ॥ २५ ॥ सोपधानशयनासनादियद्देह निर्वृतिविधायि मार्दवम् । तत्समस्तमजनिष्ट तस्य नैपूर्वसर्पनिधिसंप्रपादितम् ॥ २६ ॥ चित्ररत्नकिरणैः प्रवर्तयन्व्योमनीन्द्रधनुरुद्भवां श्रियम् । सर्वरत्ननिधिरस्य सर्वदा सर्ववाञ्छितफलप्रदोऽभवत् ॥ २७ ॥ नोक्ति स मदप्रवर्तिनीं तादृशीमपि विलोक्य तां श्रियम् । धर्म एष हि सतां क्रमागतो यन्न यान्ति विभवेन विक्रियाम् ॥२८ वीतरागचरणौ समर्च्य सद्गन्धधूपकुसुमानुलेपनैः ।
संपदा परमया सबान्धवः स व्यधत्त निधिरत्नपूजनम् ॥ २९ ॥ चक्रवर्तिविभवोचितोत्सवं तस्य पार्थिवसमूहसंगतः । पट्टबन्धविधिमन्यदा स्वयं संनिधाय निरवर्तयद्गुरुः ॥ ३० ॥ केवलं तदभिषेकवारिभिर्दूरमुच्छ्रसदभून्न भूतलम् । हर्षसागर विवर्तवर्तिनां सर्वबन्धुसुहृदां च मानसम् ॥ ३१ ॥ सप्रसादसविकासतारकं निर्मलाम्बरतया मनोहरम् ।
५९
केवलं न पुरलोकयोषितां मण्डलं समभवद्दिशामपि ॥ ३२ ॥ लब्धसौरभ गुणैर्मधुत्रतत्रातचुम्बितविकासिकेसरैः । पर्यपूरि कुसुमोत्करैः परं भूमिजैर्न दिविजैरपि क्षितिः ॥ ३३ ॥
१. रन्ध्रा वंश्यादयः, नद्धा मुरजादयः, निबिडास्तत्र्यादयः. २. नैसर्पनिधिना दत्तम् • ३. गर्व न कृतवान्.