SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। युज्यते व्यभिचारोऽपि न शृङ्गादेः शरादिना । तत्रापि पुद्गलत्वेन सजातीयत्वसंभवात् ॥ ६७ ।। विजातिभ्योऽपि भूतेभ्यो जायते यदि चेतनः । पयसोऽपि भवेत्पृथ्वी तेन्न तत्त्वचतुष्टयम् ॥ ६८ ॥ न चान्यदस्त्युपादानं भूम्यादिव्यतिरेकतः । भूतानां संहतिर्येन कल्प्येत सहकारिणी ॥ ६९ ॥ न चोपादानधर्मोऽपि काये कोऽप्यवलोक्यते । शरीरे तदवस्थेऽपि जीवे विकृतिदर्शनात् ॥ ७० ॥ घटादिकारणेष्वेतन्मृदादिषु न चेक्ष्यते । ततोऽनुमानबाधादि पेक्षं व्याघ्रीव वीक्षते ॥ ७१ ॥ हेतुश्चानुपलम्भादिरसिद्धोऽभावसाधने । तस्य खवेदनाध्यक्षादुपलम्भस्य संभवात् ॥ ७२ ॥ न चात्मभूतयोरैक्यं चिदचिद्रूपभेदतः। विभिन्नप्रतिभासित्वा दलक्षणसंभवात् ॥ ७३ ।। इत्थमात्मनि संसिद्धेऽनित्यत्वैकान्तकल्पना । तस्यान्यैः क्रियते तेऽपि प्रत्यक्षेणैव बाधिताः ॥ ७४ ॥ यतः खवेदनावात्या सुखदुःखादिपर्ययैः । विवर्तमाना सततं प्रतिप्राणि प्रकाशते ॥ ७५ ॥ सुखदुःखादिपर्याया जीवान्न च विभेदिनः । तस्यामी इतिसंबन्धकल्पनानुपपत्तितः ॥ ७६ ॥ नित्यस्यानुपकारित्वात्समवायो न युज्यते । उपकाराश्रया सर्वा संबन्धसमवस्थितिः ॥ ७७ ॥ १. पुद्गलत्वजात्या. २. एवं च तत्त्वसंकरः स्यात्. ३. तनु भूतानां चैतन्योत्पत्तौ सहकारित्वमेवेति चेन, उपादानान्तराभावात्. ४. विविधाकृत्यवलोकनात्. ५. यथा प्रत्यक्षेण पक्षबाधा तथानुमानेनापीति भावः. ६. स्वसंवेदनस्य तद्भावसाधकत्वात्. ७. चिदचितोः प्रतिभासभेदात्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy