SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् । ग्रन्थकर्तुः प्रशस्तिः । बभूव भव्याम्बुजपद्मबन्धुः पतिर्मुनीनां गणभृत्समानः । सदग्रणीर्देशिगणाग्रगण्यो गुणाकरः श्रीगुणनन्दिनामा ॥ १ ॥ गुणग्रामाम्भोधेः सुकृतवसतेर्मित्र महसा मसाध्यं यस्यासीन्न किमपि महीशासितुरिव । स तच्छिष्यो ज्येष्ठः शिशिरकरसौम्यः समभवप्रविख्यातो नाम्ना विबुधगुणनन्दीति भुवने ॥ २ ॥ मुनिजननुतपादः प्रास्तमिथ्याप्रवादः - सकलगुणसमृद्धस्तस्य शिष्यः प्रसिद्धः । अभवद भयनन्दी जैनधर्माभिनन्दी स्वमहिमजितसिन्धुर्भव्य लोकैकबन्धुः ॥ ३ ॥ भव्याम्भोजविबोधनोद्यतमतेर्भाखत्समानत्विषः शिष्यस्तस्य गुणाकरस्य सुधियः श्रीवीरनन्दीत्यभूत् । स्वाधीनाखिलवाङ्मयस्य भुवनप्रख्यातकीर्तेः सतां संसत्सु व्यजयन्त यस्य जयिनो वाचः कुतर्काङ्कुशाः ॥ ४ ॥ शब्दार्थसुन्दरं तेन रचितं चारुचेतसा । श्रीजिनेन्दुप्रभस्येदं चरितं रचनोज्ज्वलम् ॥ ५ ॥ यः श्रीवर्मनृपो बभूव विबुधः सौधर्मकल्पे ततस्तस्माच्चाजितसेनचक्रभृदभूद्यश्चाच्युतेन्द्रस्ततः । यश्चाजायत पद्मनाभनृपतिर्यो वैजयन्तेश्वरो यः स्यात्तीर्थकरः स सप्तमभवे चन्द्रप्रभः पातु नः ॥ ६ ॥ इति ग्रन्थकर्तुः प्रशस्तिः । १५३
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy