SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] चन्द्रप्रमचरितम् । मणिघण्टिकाः सदसि रेणुंरकरहति कल्पवासिनाम् । ज्योतिरमरसदने सहसा प्रजगर्जुसर्जितरवं गजारयः ॥ ४ ॥ प्रणनाद भावनगृहेषु जलदपटुशङ्खसंहतिः । व्यन्तरसुरभवनेष्वहताः पटहाः प्रतिध्वनिमुचः प्रदध्वनुः ॥ ५ ॥ इति हेतुभिः प्रचलितैश्च समसमयमात्मविष्टरैः । ज्ञातजिनपतिभवाः परितो गगनं प्रपूर्य विबुधाः प्रतस्थिरे ॥ ६॥ प्रचलत्सुरासुरकिरीटकिरणनिकुरुम्बरञ्जिताः । मण्डनमिव जगृहुः ककुभोऽप्यथवा न कस्य जिनजन्म वृद्धये ॥ ७ ॥ अधुना व्यनक्ति जिन एव भुवनमिदमत्र किं मया । कृत्यमिति सुरविमानचयैस्त्रपयेव भानुरभवत्तिरोहितः ॥ ८ ॥ सुरपङ्किरानृपतिगेहमरुचदमरालयातता । अन्तरमकलयता द्युभुवोरिव मानरज्जुरुदतारि वेधसा ॥ ९ ॥ स चतुर्विधोऽपि नृपसद्म विविधमणिरत्नभासुरः । प्राप भृतसकलभूमितलो जलराशिवत्सुरगणः सवासवः ॥ १० ॥ अथ मायया जनितमात्रतदनुकृतिरूपमर्भकम् । मातुरुरसि विनिवेश्य शची जिनमुज्जहार गुरुभक्तिभाविता ॥ ११ ॥ तमुदीक्ष्य भासुरमशीतरुचिमिव शचीसमाहृतम् । पद्मवनमिव विकासमगाद्युगपत्सहस्रमपि चक्षुषां हरेः ॥ १२ ॥ सुरबृंहिते जयजयेति भुवनमभिसर्पति ध्वनौ । हस्तधृतवपुषमात्मगजं तमरोपयत्प्रथमकल्पनायकः ॥ १३ ॥ इतरे च तं परमभक्तिभरनतकिरीटकोटयः । भेजुरमरपतयोऽन्तगता विभृतातपत्रकलशाब्दचामराः ॥ १४ ॥ सुरयोषितो विविधधूपबलिकुसुमरुद्धपाणयः । मङ्गलमुखरमुखाम्बुरुहाः करिणीगताः समुपतस्थिरेऽप्रतः ॥ १५ ॥ चलितेऽभिमेरु सुरनाथनिवहपरिवारिते जने । नेदुरथ विबुधहस्तहताः परितः प्रयाणपरिशंसिमेरिकाः ॥१६॥ १. करताडनं विना शब्दं चक्रुः. २ अब्दो दर्पण इति टीका.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy