SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] चन्द्रप्रभचरितम् । । १११ संचारिमाद्रिसदृशैः सलिलाशयानां प्राचुर्यवद्भिरिव वीचिचयैर्बभूवे ॥ ५३ ॥ पीताम्भसः श्रमलवानिव वारिबिन्दु व्याजेन वाजिनिवहाः सपिताः क्षरन्तः । संयेमिरे युगपदेव समापतन्तः क्षिप्तोपलाखथ कथंचन मन्दुरासु ॥ ५४ ॥ तोयावगाहचकितैरलिनीलदेहै___ रुत्सारितध्वजकुथाभरणास्त्रभारैः कल्पान्तमारुतपरिक्षुभितैरिवाद्रि कूटै रराज वसुधा वरवारणेन्द्रैः ॥ ५५ ॥ यानि द्विपेन्द्रनिवहो निजपुष्कराणि संजाततुष्टिरुदमीमिलदम्बुममः । तान्येव सैनिकविलुण्ठितवारिजेषु रक्ताम्बुजश्रियमधुः सलिलाशयेषु ॥ ५६ ॥ कुर्वन्ति यामनुकृताचलतुङ्गशृङ्गाः संध्यारुणानिवहा नभसस्तटेषु । सा श्रीह्रदेषु सरितां विदधे विशद्भिः ___ सिन्दूररागरुचिरावयवैर्गजेन्द्रैः ॥ ५७ ॥ जज्ञे पयः प्रविशतः सुतरं यदेव ___ भूभृत्सरित्सु पृतनाकरिणां कुलस्य । गण्डस्थलप्रविगलन्मदपूरपूर्ण मासीत्तदेव सुदुरुत्तरमुत्तितीर्णोः ॥ ५८ ॥ कृत्वा क्षणं जनकुतूहलकारि युद्धं दर्पोद्धतै लगजैर्जितकाशिनस्ते । जग्मुः सलीलमदमन्दपदं करेणु पाश्चात्यभागनिहितात्मकराः करीन्द्राः ॥ ५९ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy