SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] चन्द्रप्रभचरितम्। १०९ निष्क्रान्तैः शिखरचयान्निरन्तरालैरालीढाः सरसिजरागरश्मिजालैः । श्रीमत्तां दधति दिशो दशाप्यमुष्मिन्नीरक्तैरिव वसनैः परिष्कृताङ्गाः ॥४० सेनापतेरिति वचो ललितैकवर्ण___ माकर्ण्य भूमिपतिरप्रतिवार्यवीर्यः । तस्मिन्नुदीर्णमणिरोचिषि शैलराजे __ रन्तुं कियन्त्यपि दिनानि बबन्ध बुद्धिम् ॥ ११॥ संपश्यता कुसुमवासितदिग्विभागा राजीगिरेरनुतटं विविधद्रुमाणाम् । मध्याह्नवर्तिनि रवावुदितश्रमेण प्रापे नृपेण पृतनाविनिवेशदेशः ॥ ४२ ॥ घर्मोदबिन्दुभिरुपाहितभूरिशोभा __ गण्डस्थलीः पथि विलोकयतः प्रियाणाम् । बाधाकरोऽपि शिशिरेतररश्मिरासी। तस्यावनीतलभुजोऽभिमतस्तदानीम् ॥ ४३ ॥ द्राधीयसीरविरलं रचिता वणिग्भि__ र गतैः पटमयापणराजितान्ताः । पश्यन्क्रयाकुलजनाः क्षितिपोऽट्टवीथी. रुत्तुङ्गतोरणमियाय निजं निवासम् ॥ ४४ ॥ यान्तीभिरात्मनिलयाय तुरङ्गिणीभिः सामन्तसंहतिभिरीशविसर्जिताभिः । वेलाभिरुद्धततरङ्गविभङ्गुराभि रक्षुभ्यदम्बुधिरिव ध्वजिनीनिवेशः ॥ ४५ ॥ राजाधिराजवसतेर्हयमन्दुरायाः पण्याङ्गनापरिषदो विपणिध्वजस्य । पर्याकलय्य परितो विनिवेशदेशं खावासभूमिरनुवासिजनेन जज्ञे ॥ १६ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy