SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९६ काव्यमाला । प्रियवादपरेषु विश्वसीत्कुभटेष्वेषु वृथैव मा भवान् । परिवारितमप्यगैर्नगं क्षुभितः प्लावयितुं क्षमोऽम्बुधिः ॥ ५१ ॥ वयमेतदुदाहृतं मया प्रधने तत्प्रकटं भविष्यति । . स्फुटतामुपयाति कस्यचिद्रसभेदो नहि जिह्वया विना ॥ ५२ ॥ अहितस्य हितोपदेशनैरथवा किं मम कुर्वभीप्सितम् । प्रतिकूलजने ह्युपेक्षणं हितशिक्षानुगतैकवृत्तिषु ॥ ५३ ॥ ससुतः समुपेत्य तत्सभां क्षितिमभ्यर्चय मुक्तमत्सरः । प्रणतिं गमितैः शिरोम्बुजै रणभूमीमथवा गलच्युतैः ॥ ५४ ॥ क्षुभितामिति तस्य भाषितैर्युवराजप्रमुखामसौ सभाम् । परवागनुवादिनोऽस्य कः खलु दोषः प्रभुरित्यवारयत् ॥ ५५ ॥ व्रज योग्यगृहासनादिकं व्यवहारोचितमस्य कारय । अभिधाय नियुक्तमित्यसावुदतिष्ठत्प्र विसर्जिताखिलः ॥ ५६ ॥ अथ मन्त्रगृहे स मन्त्रवित्सममाहूय समस्तमन्त्रिणः । युवराजसमन्वितोऽभ्यधादिति वाचं वचने विचक्षणः ॥ ५७ ॥ वयमप्यगमाम कौशलं नयमार्गे यदयं भवद्गुणः । अवभासयतेऽखिलं जगद्दिवसोऽयं महिमा रवेरसौ ॥ ५८ ॥ परिवधर्यति खकौशलैः कुशलं शास्त्यवति प्रमादतः । जननी जनिकेव तत्फलं कुरुते नः सकलं भवन्मतिः ॥ ५९ ॥ अपि मेरुसमे समुद्गते मम का व्याकुलता प्रयोजने । अभिजाग्रति यस्य सर्वतो गुरवः कार्यविधौ भवद्विधाः ॥ ६० ॥ द्विरदानिव मद्विधान्सदा मदमूढान्स्खलतः पदे पदे । अपथाद्विनिवर्तयेत को गुरवश्चेन्न भवेयुरङ्कुशाः ॥ ६१ ॥ क्रमतेऽरिषु मत्पराक्रमो भवतामेव धिया पुरस्कृतः । नहि धामधनोऽप्यसारथिर्नभसः पारमुपैति भास्करः ॥ ६२ ॥ स्वयमेव भवद्भिराहितश्रुतिभिः किं न सभागतैः श्रुतम् । निजदूतमुखेन निष्ठुरं मयि यत्तेन शठेन भाषितम् ॥ ६३ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy