SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [१२] ॥ श्रीकामकुम्भकथा ॥ पान्तु वः श्रीमहावीर - स्वामिनो देशनागिरः १ । २भव्यानामान्तरमल-प्रक्षालनजलोपमाः ॥ १ ॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वम्, धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ॥२॥ धर्मतः सकलमङ्गलावली, धर्मतः सकलसौख्यसम्पदः । धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो विधीयताम् ॥१॥ धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्पद्रुमः परः । धर्मः कामदुधा धेनु - धर्मः सर्वफलप्रदः ॥ २ ॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ ३ ॥ व्यसनशतगतानां क्लेशरोगातुराणाम्, मरणभयहतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानाम्, शरणमशरणानां नित्यमेको हि धर्मः ॥४॥ धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलम्, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः ।
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy