________________
५८• सुलभ-चरित्राणि प्रच्छन्नं तव पाणिग्रहणं२७ विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि । ततो न वाच्यं मामेतद्विषये' इति । तयोक्तम् - ‘एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः' । इत्युक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं मानितो बलात्कारेण । ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले तेन सह सङ्केतं चकार । तत आगतायां तस्याम्२८ सा सर्वां पाणिग्रहणसामग्री कृत्वा सङ्केतदेवकुले आगात् । ततो गुणसुन्दरश्चिन्तयामास-‘एवंविधमकृत्यं कः करिष्यति' ? इति विचिन्त्य नागतः सङ्केतस्थानम् । यावद् रूपवती सङ्केतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्तव्यमर्थिकः प्राप्तः 'स२९ एवागत' इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे । कृत्वा हृष्टया तया वादितः - स्वामिन् ! कस्मादुत्सूरश्चक्रे ! ततो यावता स न वक्ति ततः सा पुनःपुनः पृच्छति, ततस्तेनोक्तम् ‘प्राप्तव्यमर्थं लभते मनुष्य' इति । तत उपलक्षिते सा दूना चिन्तयामास-"आः ! किं कृतं मयाऽभागिन्या ? त्रैलोक्येऽपि यो मूर्यो विदितः स वृतः । हा ! पापदैव ! किं कृतम्" ?
"अन्यथा चिन्तितं कार्यं दैवेन कृतमन्यथा । राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः" ॥१॥ इति ।
ततस्तयाऽचिन्ति-'अस्तु ! किं शोकेन ? यतो मां विना केनाऽप्यद्यापि मम कृत्यं ज्ञातं३० नास्ति । अनेनाऽप्युपलक्षिता नाऽस्मि । ततो यामि स्वस्थानं नष्ट्वा' । इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् । पुनः प्राप्यव्यमर्थिक एकाक्येव जातः । ततस्तेनाऽचिन्ति-अद्याऽपि रजनी बह्वी । ततो नगरे भ्रमामि, पुनः कौतुकं विलोकयामि । इति विचिन्त्य निस्ससार देवकुलात् । नगरे भ्रमन् प्राप्तश्चतुष्पथे३१, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुदत्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमती परिणेतुं गच्छन्तम् । प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन सार्द्ध प्रचचाल तत्पृष्ठौ । एवं वाद्यनिनादाऽभिरामं३२ नगरान्तवर्जन् तस्मिन् जिनदत्तगृहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता३३ तन्नगरराज्ञो