________________
सौभाग्यपञ्चमीकथा • १९७
श्रुत्वा वरदत्तो जातिस्मृत्या निजपूर्वभवं दृष्ट्वा मूर्च्छा प्राप, क्षणान्तरे स्वस्थीभूय ४२ सर्वं सत्यमिति गुरुं प्रति उवाच । पुनरपि नृपो बभाण- भगवन् ! स देहरोगः कथं कदा व्रजिष्यति ? गुरुणा उक्तम्, कार्तिकशुक्लपञ्चमी आराध्या पूर्वोक्तः सर्वोऽपि विधिः कथितः प्रतिपन्नं कुमारेण पञ्चमीतपः, गुरुं प्रणम्य सर्वेऽपि स्वस्वस्थानं जग्मुः, अनन्तरं सम्यक् तत्तपः कुर्वतो तपःप्रभावात् वरदत्तस्य सर्वेऽपि रोगाः क्षयं प्रापुः, स्वयंवरसमेतानां ४३ वरभूपोद्भवानां सहस्रकन्योत्तमानां समहोत्सवं पाणिग्रहणं४४ च चकार । शिक्षिताशेषसत्कलस्य वरदत्तस्य राज्यं दत्त्वा नृपो गुरुसन्निधौ चारित्रमग्रहीत् । वरदत्तो राज्यं पालयन् वर्षे वर्षे महाशक्त्या पञ्चम्या विधिं विदधे । ४५ अखण्डाऽऽज्ञो राज्यं प्रपाल्य भुक्तभोगः स्वसूनवे राज्यं दत्त्वा स्वयं दीक्षामग्रहीत् ।
,
इतो गुणमञ्जर्यास्तपोमाहात्म्यं वर्ण्यते तस्यास्तपःप्रभावात् सर्वेऽपि रोगा दूरं गताः, अद्भुतं रूपं जज्ञे सा च जिनचन्द्रेण परिणीता, करमोचनवेलायां पित्रा बहुधनं दत्तम्, चिरकालं गृहसौख्यं भुक्त्वा यावज्जीवं पञ्चमीतपः कृत्वा प्रान्ते चारित्रमग्रहीत्, तौ वरदत्तगुणमञ्जय जिनोदितं चारित्रं प्रपाल्य कालं कृत्वा वैजयन्तविमाने सुरोत्तमौ४६ जातौ ततश्च्युत्वा वरदत्तजीवो महाविदेहे पुण्डरीकियां नगर्याममरसेनराज्ञः स्त्री गुणवती, तस्याः पुत्रत्वेन समुत्पन्नः । शुभेऽह्नितस्य शूरसेन इति पित्रा नाम कृतम् । क्रमेण यौवनं प्राप्तः कन्यकानां शतमुपयेमे ४७ पिता स्वराज्ये स्थापितः । एकदा श्रीसीमन्धरस्वामी विहरंस्तत्र समागतः । अर्हदागमनं श्रुत्वा शूरसेनो वन्दनार्थमगमत् । भगवता धर्मदेशना प्रारब्धा, तत्र सौभाग्यपञ्चम्यास्तपसः फलं प्रकाशितम्, ततो राज्ञा पृष्टम् - भगवन् ! केनाऽपि तपसः फलं प्राप्तम् ? तदा भगवता वरदत्तनृपदृष्टान्तः कथितः, तत् श्रुत्वा जातजातिस्मृतिः सन् पूर्वभवं ददर्श, पुनः तद्व्रतं जग्राह दशसहस्रवर्षं राज्ये स्थित्वा तीर्थंकरपार्श्वे संयममग्रहीत् वर्षसहस्रं दीक्षां प्रपाल्य केवलज्ञानं प्राप्य मोक्षं प्राप ।
अथ गुणमञ्जीरीजीवो सुखं भुक्त्वा ४८ रमणीयाख्ये विजये सुभायां नगर्याममरसिंहाभिधनृपपल्या अमरावत्याः कुक्षौ पुत्रत्वेन समुत्पन्नः, समये