SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [१९] ॥ श्रीअक्षयतृतीया कथा ॥ प्रणिपत्य प्रभुं पार्श्व श्रीचिन्तामणिसञ्ज्ञकम् । अक्षयादितृतीयाया व्याख्यानं लिख्यते मया ॥१॥ उसभस्सयपारणए, इक्खुरसो आसि लोगनाहस्स । सेसाणं परमान्नं, अमियरससरिसोवमं आसी ॥२॥ इहादौ श्रीऋषभस्वामिसम्बन्ध उच्यते, श्रीऋषभस्वामी सर्वार्थसिद्धविमानात् च्युत्वा आषाढवदिचतुर्थ्यां श्रीमरुदेवाकुक्षावुत्पन्नः, नवमासान् चतुर्दिनाधिकान् गर्भे स्थित्वा चैत्रवद्यष्टम्यामर्धरात्रे जन्म सम्प्राप्तः, विंशतिपूर्वलक्षाणि कुमारपदं भुक्त्वा त्रिषष्टिपूर्वलक्षवर्षं राज्यं प्रपाल्य चैत्रवद्यष्टम्यां दीक्षां जग्राह, तदा हस्तिनापुरे श्रीबाहुबलिपुत्रस्य श्रीसोमयशोनृपस्य पुत्रः श्रेयांस आसीद् । अथ भगवान् प्राक्तनकर्मोदयाद् वर्षं यावद् आहारालाभाद् निराहारो विहरन् हस्तिनागपुरे समाययौ, तस्यां रात्रौ श्रेयांसादिभिः त्रिभिस्रयः स्वप्ना लब्धाः, तथाहि-श्यामीभूतं मेरुममृतघटैः प्रक्षाल्याहमुज्ज्वलमकार्षमिति श्रेयांसो लब्धवान् १, तथा सूर्यबिम्बात् च्युतं किरणसहस्रं श्रेयांसेन सूर्यबिम्बे स्थापितमिति स्वप्नं सुबुद्धिनामा श्रेष्ठी लब्धवान् २, तथा एकः शूरो बहुभिः वैरिभिः रुद्धः, श्रेयांससाहाय्याद् जयं प्राप्तवान् इति स्वप्नं च सोमयशाः राजा लब्धवान्, प्रातः सभायां सर्वेऽपि मिलिताः स्वं स्वं स्वप्नमुक्तवन्तश्च, ततः स्वप्नविचारं कृत्वा नृपादिभिः सर्वैरपि उक्तम्-अद्य श्रेयांसस्य कश्चिदपूर्वो महान् लाभो भविष्यतीति । तदा भगवान् भिक्षार्थम् इतस्ततो भ्रमन् श्रेयांसगृहमाययौ, श्रेयांसः स्वामिनं दृष्ट्वा हर्षं प्राप्तः, लोकास्तु पूर्वं साधुमुद्राया अदर्शनेन अन्नदानविधेरज्ञानाद् भगवन्तं मणिस्वर्णगजाश्वादिभिर्निमन्त्रयामासुः, भगवांस्तु
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy