________________
श्रीचेल्लणामहासतीचरित्रम् • १४५
इत्याद्युक्त्वा तया सुज्येष्ठया जिनधर्मे स्थापिते सति क्रुद्धा सा तापसी उल्लण्ठतया यथातथा जल्पितुं लग्ना, जिनधर्मस्य च निन्दां कर्तुं प्रवृत्ता । तदा कोपातुराभ्यां ताभ्यां सा तापसी "निजचेटिकापार्थ्यादर्धचन्द्रप्रदानेन गले गृहीत्वा निजान्तःपुराद्बहिर्निष्कासिता । ततः फालच्युता व्याघ्रीवातीवकोपातुरा सा तापसी “एवमलब्धसन्माना प्राप्तपराभवा च दध्यौ, नूनं सा सुज्येष्ठा निजवैदुष्यगर्विता ' विद्यते, अथ तामहं केनाप्युपायेन सपत्नी सम्भवे भूरिदुःखे पातयामि, इति ध्यात्वा परमं द्वेषं प्राप्ता सा तापसी तस्याः सुज्येष्ठाया सविशेषं स्वरूपं केनापि कुशलेन चित्रकारेण पट्टे समालेखयामास । ततः सा तं चित्रपट्टं समादाय राजगृहे नगरे समायाता। केनाप्युपायेनासौ तापसी तत्र श्रेणिकनृपं मिलित्वा तं चित्रपट्टं दर्शयामास ।
अथ तत्र चित्रपट्टे समालेखितं तस्याः सुज्येष्ठाया मनोहरं स्वरूपं दृष्ट्वा स श्रेणिकनृपो दध्यौ, किमेषा सुराङ्गना ? किं वा कापि पातालकन्या वर्तते ? इत्यादि विचिन्त्य कामविह्वलः स नृपस्तां तापसीमपृच्छत्, भो तापसि ! अत्र चित्रपट्टे या सुन्दरी त्वया चित्रितास्ति सा किं क्वापि विद्यमानास्ति ? वा त्वया किं कृत्रिममेव स्वरूपं स्वचित्रकलाप्रदर्शनायालेखितमस्ति ? तत् श्रुत्वा तापस्या प्रोक्तं,
राजन् ! इयमालेखिता सुन्दरी विद्यमानैव मयालेखितास्ति, न चेदं कृत्रिमस्वरूपं वर्तते तत् श्रुत्वा राज्ञा तस्यै पुनः पृष्टम् । तदैषा कस्य पुत्री विद्यते ? तथैव सा किं परिणीता वा कुमारी विद्यते ? तापसी प्राह राजन् ! वैशालीनगराधीशस्य चेटकाख्यभूपस्येयं सुज्येष्ठाख्या तनया वर्तते, तस्या एव चेदं स्वरूपं मया चित्रितमस्ति । किञ्चेयमद्यापि कुमार्येव वर्तते, नूनं त्वमेव च तामुद्वोढुमर्हसि । १° तत् श्रुत्वा हृष्टोऽसौ श्रेणिकनृपस्तां तापसीं दानेन सन्तोष्य विससर्ज ।
अथ तच्चित्रदर्शनतोऽत्यन्तं १९ मन्मथविह्वलीभूतस्तां सुज्येष्ठामुद्वोदुकामो नृपः शून्यचित्त इवाजनि । ततोऽसौ चेटकनृपपार्श्वे चतुरमेकं दूतं प्रेष्य ताम् सुज्येष्ठां मार्गयामास परं स चेटकनृपो दुतं जगाद, भो दूत ! अहं मदीयां पुत्र सुज्येष्ठां श्रेणिकनृपाय दातुं नेच्छामि । तदा स दूतोऽपि पश्चादागत्य चेटकोक्तं वचनं श्रेणिकभूपाय निवेदयामास । तदाकर्ण्यासौ भृशं खिन्नोऽभूत् ।
अथैवं म्लानमुखं निजजनकं विलोक्येङ्गिताकारेण १२ च तस्य मनोगतं