SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ • सुलभ - चरित्राणि जम्बूद्वीपे पूर्वविदेहे वीतशोकानगर्यां पद्मरथनृपगृहे वनमालाराज्ञीकुक्षौ पुत्रत्वेनोत्पन्नः, तस्याभिधानं 'शिवकुमार' इति, यौवनं प्राप्तः, पञ्चशतराजकन्यानां पाणिग्रहणं कारितम्, एकस्मिन्नवसरे गवाक्षस्थितेन शिवकुमारेण कश्चित्साधुर्दृष्टः, गवाक्षादुत्तीर्य पृष्टम् । किमर्थं क्लेशसहनम् ? साधुनोक्तम् धर्मनिमित्तम्, शिवकुमारेणोक्तम् कोऽयं धर्मः ? साधुनोक्तम् श्रवणेच्छा चेदस्माकं गुरुसमीपे समागच्छ, तेन सार्द्धं स धर्मघोषाचार्यसमीपे आगतः, धर्मं श्रुत्वा तेन जातिस्मरणं प्राप्तम्, गुरुं नत्वा स गृहे आगतः, मातापितृभ्यां दीक्षाज्ञा न दत्ता, गृहवासे एव षष्ठभक्तं प्रतिदिनं करोति । पारणे 'चाचाम्लं करोति । एवं द्वादशवर्षाणि यावत्तपस्तप्तवा स प्रथमस्वर्गे चतुः पल्योपमायुर्विद्युन्मालीनामा देवो जात:, इति चत्वारो भवा जम्बूस्वामिनो भगवता ' श्रेणिकाग्रे उक्ताः । ततः पञ्चमे भवे ततश्च्युत्वा राजगृहे नगरे ऋषभदत्त श्रेष्ठिनो गृहे धारिणीकुक्षौ शिवकुमारदेवः पुत्रत्वेनोत्पन्नः, स्वप्ने जम्बूतरुदर्शनाज्जम्बूकुमार इति नाम स्थापितम् । बाल्येऽपि तेन कलाः सकला अभ्यस्ताः, यौवनं प्राप्तम्, अतीवरूपवान्, तरुणीहरिणीपाशरूपः, तस्मिन्नवसरे तन्नगरवासिभिरष्टाभिः श्रेष्ठिभिर्जम्बूकुमाराय १°स्वकीयकन्यादानार्थं सत्यङ्कारः कृतोऽस्ति, एतस्मिन्नवसरे तत्र श्रीसुधर्मस्वामिगणभृत्समवसृतः, श्रेणिको वन्दनार्थं समागतः, ऋषभदत्तो जम्बूकुमारेण सार्द्धमागतः, श्रीसुधर्मापि भवदवतापोपशान्त्यर्थं पुष्करजलधारोपमां देशनां ददाति, संसारस्वरूपस्याऽनित्यता दर्शिता, यथा कामिनां मनश्चञ्चलम्, यथा मूषागतं ११ स्वर्णम्, यथा जलसङ्क्रान्तम् विधुमण्डलम्, यथा वायुना हतो ध्वजप्रान्तस्तद्वदस्थिरं भवस्वरूपम्, यथाङ्गुष्ठलालापानेन बालः सुखं मन्यते, तथाऽयमपि जीवो निन्दितैर्भोगैः सुखं मन्यते, अहो ! मुग्धत्वं लोकानाम्, यत्रोत्पन्नस्तत्रैवानुरक्तः, तानेव स्पृशन् मनसि हृष्यति । इत्यादिदेशनां श्रुत्वा प्रतिबुद्धो जम्बूकुमारः सुधर्माग्रे कथयति, स्वामिन् ! भवतारिणीं दीक्षां दत्त्वा मां स्तिारय, सुधर्मास्वामिनोक्तम्, हे देवानुप्रिय ! मा प्रमादं कुरु इति गुरुवचः श्रुत्वा गृहमागच्छन् स राजमार्गे
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy