SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ • सुलभ- - चरित्राणि अथैकदा सागरदत्तेन मन्त्रिणं प्रति प्रोक्तं, पृथक्पृथक्प्रवहणस्थयोरावयोः का प्रीतिः ? अतस्त्वं मम प्रवहणे समागच्छ ! ततः सरलस्वभावो मन्त्री तस्य यानपात्रे गतः । सागरदत्तेनोक्तं यद्यावां वाहनप्रान्ते समुपविश्योल्लोलज्जलधिकल्लोललीलां६२ पश्यावस्तदा वरं, मन्त्रिणापि तदङ्गीकृतम् । अथावसरं प्राप्य लोभाभिभूतेन तेन सागरदत्तेन मन्त्री समुद्रान्तः पातितः, मन्त्रिणा तु पततैव नमस्कारस्मरणानुभावेन फलकं लब्धम् ततोऽनन्तरं सर्वाण्यपि प्रवहणानि त्वग्रतो गतानि । अथ स दुष्टः सागरदत्तः कूटशोकं विधाय विलपन्त्या राजपुत्र्याः पार्श्वे समागत्य मायया विलपन् सन्नुवाच, हे भद्रे ! यदि त्वं मदुक्तं करिष्यसि तदाहं त्वां मम सर्वकुटम्बस्वामिनीं करिष्यामि । तस्यैवंविधवचनतस्तया चतुरया ज्ञातं नूनमनेनैव दुरात्मना लोभाभिभूततया मम स्वामी समुद्रमध्ये पातितोऽस्ति । यतः दिवा पश्यति नो ६३ धूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवानक्तं न पश्यति ॥४४॥ न पश्यति हि जात्यन्धः, कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तो, अर्थी दोषं न पश्यति ॥४५ ॥ किमु ६४ कुवलयनेत्राः सन्ति नो नाकिनार्य६५ स्त्रिदशपतिरहल्यां तापसीं यत्सिषेवे । मनसि तृणकुटीरे दीप्यमाने स्मराग्नौ, उचिमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ४६ ॥ विकलयति कलाकुशलं तत्त्वविदं पण्डितं विडम्बयति । अधरयति धीरपूरुषम्, क्षणेन मकरध्वजो देवः ॥४७॥ , अथ स्वशीलरक्षार्थं तयोक्तं सम्प्रति मम दुःखं वर्त्तते, अतो नगरगमनानन्तरं चिन्तयिष्यते । इति तद्वचसा सागरदत्तः स्वस्थो जातः, इतस्तस्य प्रवहणमपि सुवायुना पूरितं गम्भीरपुरनगरे प्राप्तम्, तावत्सौभाग्यसुंदरी
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy