SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः श्रीमते वीरनाथाय, कारूण्यपुण्यपाथसे । चरमतीर्थनाथाय परोपकारिणे नमः ।।१।। , गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः । तत्परम्परयाऽऽयात- यतीन्द्रेभ्यो नमो नमः ||२|| शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः || ३ || ततोऽपि कमलः सूरिः, संयमकमलाकरः । उपाध्यायस्तथा वीरो वीर आन्तरविग्रहे ||४|| , सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः । ततोऽपि प्रेमसूरीशः, सिद्धान्तकमहोदधिः ||५|| भुवनभानुसूरीश-स्ततो न्यायविशारदः । पंन्यासोऽस्यानुजः पद्मः समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः । वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ।।७।। / तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु कुर्यात् सर्वस्य मङ्गलम् ||८|| I
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy