________________
वर्गोपनिषद् इति दत्तसङ्केता इत्यर्थः, ते द्वाविंशतिभण्डकाः कलकलारावं - कोलाहलम्, कुर्वाणाः प्रधाविष्यन्ति - मुनिद्वयस्य सम्मुखं वेगेन गमिष्यन्ति । ततश्च
ते साहूणं युगलं संघट्टइस्संति परियावइस्संति किलामइस्संति उद्दवइस्संति हीलइस्संति प्रिंसिस्संति निंदिस्संति गरिहिस्संति पुरहियपामोखाणं हासं जणइस्संति ।
ते भण्डकास्तं साध्वोर्युगलं सङ्घट्टयिष्यन्ति - स्वकीयशरीरेण घर्षणविषयीकरिष्यन्ति, परितापयिष्यन्ति - पीडयिष्यन्ति, क्लमयिष्यन्ति - ग्लानिं प्रापयिष्यन्ति, उपद्रावयिष्यन्ति - उपद्रवगोचरीकरिष्यन्ति, हीलयिष्यन्ति - अवगणयिष्यन्ति, खिंसिष्यन्ति - लोकसमक्षं कुत्साविषयीकरिष्यन्ति, निन्दिष्यन्ति - जात्यायुद्घाटनतो जगुप्सागोचरीविधास्यन्ति, गर्हिष्यन्ते - दोषोद्घाटनेन न्यक्कारपात्रीकरिष्यन्ति, एवंकरणेन पुरोहितप्रमुखानां सभोपस्थितानां जनानां हासं जनिष्यन्ति ।
१. ग - दुरहियपामोक्खाणं । त - दुट्ठहिययामुक्खाणं ।