SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् २७ भावशौचं च । अत्र लिङ्गव्यत्ययः प्राकृतत्वात् । द्रव्यत उदकमृत्तिकाभ्यां च भावतो दर्भेश्च मन्त्रैश्च । यदस्माकं किमप्यशुचि भवति, तत् सर्वं मृत्तिकाभिलिप्यते, अस्माकमपावित्र्यं मृत्तिकादीषु सङ्क्रमतीत्याशयः ।। ततश्च शुभोदकेन - तीर्थादिपवित्रजलेन, शरीरं प्रक्षाल्यते, ततोऽनन्तरं सोऽशुचिरात्मा शुचिर्भवति । एवं खलु सत्त्वा जलाभिषेकसक्ताः - अनिशमपि जलशौचैकतत्पराः, परमपदम् - त्रैलोक्येऽपि श्रेष्ठं स्थानं मोक्षमिति यावत्, गच्छन्ति - शौचधर्मानुभावेन प्राप्नुवन्ति । तया णं ते दुवीससोवागा कामलयापरिवाइयावुत्ता सोयधम्म सोच्चा हट्टतुट्टा तं धम्म अभिसद्दहमाणा रोयमाणा कामलयापरिवाइयाए तिपाहिणपुव् सोयमूलं धम्म पडिज्जिहंति । पुणोवि कयप्पणामा सएसु गिहेसु पडिगमिस्संति । परिवायगधम्मपरमभत्ता होहिंति । तदा ते द्वाविंशतिश्वपाकाः कामलतापरिव्राजिकोक्ताः शौचधर्मं श्रुत्वा हृष्टतुष्टास्तं धर्ममभिश्रद्दधानाः तत्करणे निजाभिलाषवन्त इत्यर्थः, रोचमानाः - अनन्यो - १. क - ०याहण० । २. ख.ग.च.छ - ०वज्जिहं० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy