SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् २१ तदनुविद्धा इवेत्यर्थः, तथा विष्टाद्यशुचिना विलिप्तगात्राः - अनुषक्तशरीरावयवाः, तेनैव-विष्टाद्यशुचिना, आहारवृत्ति कल्पयमानाः - भोजनप्रयुक्तप्राणधारणं कुर्वाणाः, परस्परम् - मिथः रुद्रस्वरेण - श्रवणमात्रतोऽपि भयकारकेन शब्देन, गुञ्जन्तः - कोलाहलं विदधन्तः, बहूनां प्राणानाम् - एकेन्द्रियादिजीवानाम्, विमर्दनार्थतया - हिंसादिप्रयोजनत्वेन, आत्मानं सहर्षम् - प्रमोदसहितम्, मन्यमानाः, हिंसादिप्रत्यला वयं जीवानां पीडामुत्पादयाम इत्यादि विचिन्त्य सन्तुष्टीभवन्त इति हृदयम्। __एवंविधास्ते वर्षपृथक्त्वस्थितिक्षयेण कालं कृत्वा त्रयस्त्रिंशत्तमे भवेऽवन्तिजनपदेषु श्वपाककुलेषु श्वपाकापत्या उत्पत्स्यन्ते, चाण्डालसुतत्वेनोद्भविष्यन्तीत्यर्थः । तते णं ते दुवीस सोवागा वुद्धिं पत्ता हुंडसंठाणा दीहदंता लंबोयरा गुलियगवलरासिसन्निभा अदंसणिज्जा जणाणं दुर्गच्छं उप्पायमाणा सकम्मकुसला आवि होहिंति । ततोऽनन्तरं ते द्वाविंशतिश्वपाका वृद्धि प्राप्ताः सन्तो हुण्डसंस्थानाः - समयप्रसिद्धनिकृष्टाकारमन्तः, दीर्घदन्ताः १. ख.ग.च.छ - गुलियरा० । २. ख.ग.च.छ - निकासा ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy