SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्लो०५] सप्तभङ्गीनिरूपणम् नतिरेकात् । नित्यानित्यत्वादयो जात्यंतररूपा अखंडा इत्यप्याहुः। अत एवामून् धर्मानवलंम्य तत्र तत्रोक्ता सप्तभंगी संगतिमंगति ।। ___ अथ केयं सप्तभंगीति चेद् ? 'एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्कारांकितः सप्तधा वाक्प्रयोगः सप्तभंगीतिसूत्रम् [प्र० न० परि०४ सू०१४] यः खलु प्रागुपदर्शितान् वस्तुनः सप्त धर्मानवलम्ब्य संशते, जिज्ञासते, पर्यनुयुक्ते च तं प्रतीयं फलवती, प्रश्नस्य तुल्योत्तरनिवर्त्यत्वात् । अत एवैकेनापि भंगेन न्यूना सतीयं न प्रमाणम् । सप्तप्रतिपाद्यावगाहिसंश(य)जजिज्ञासाजन्यानां सप्तानां प्रश्नानामनिवर्तनात् । यथा च सामान्यतः शब्दः सर्ववाचकोऽपि संकेतविशेष सहकृत्यान्वयं बोधयति तथेयमप्यर्पणाविशेषसहकृत्वरी सतोति । शब्दे इच्छाया अनियामकत्वं तु दुर्बलयुक्तिकम् । सप्तभंगीविनिर्मुक्तशब्दमात्रस्याऽबोधकत्वं तु न वाच्यम्, 'विधिप्रतिषेधाम्यां स्वार्थमभिदधानः' इत्यनेनार्पणाविशेषस्थल एव तदनुवर्तनाभिधानात् । अत्र च स्यान्नित्यवादिषु सप्तभंगेष्वेवकारोऽवधारणार्थोऽन्यथाऽनुक्तसमत्वाऽऽपातात् , स्यात्पदं तु तत्तदवच्छेदकरूपपरिचायक, तदपरिचये सांकर्यादिशंकाऽनिवृत्तेः । नेनु स्यादस्ति स्यान्नास्तीत्यादिसप्तभंग्यां घटत्वादिना घटाऽस्तित्वं कथं विधीयतां ? अस्तित्वत्वेनैव तद्विधानसंभवात् । पटत्वादीनां वा घटास्तित्वं कथं प्रतिषिध्यतां ! व्यधिकरणधविच्छिन्नाऽभावस्याऽप्रामाणिकत्वात् । न च 'घटत्वेन नास्ती' त्यादिप्रतीतिरेव तत्र मानम्-नचान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्यैव व्युत्पत्तिलभ्यत्वात्कथमत्र घटत्वावच्छिन्नप्रतियोगिताकत्वलाभ इति वाच्यं-तृतीयांतपदस्थले एव तदुल्लिखितधर्मावच्छिन्नप्रतियोगिताकत्वस्यैव संसर्गत्वादन्यथा 'घटत्वेन कंबुग्रीवादिमान्नास्तीति प्रतीतेरप्यप्रामाणिकत्वापत्तरिति वाच्यं, तद्धर्मविशेषणतावच्छेदकतया भासकसामग्रया एव प्रतियोगितावच्छेदकत्वभासकत्वात् पटादौ घटत्वादिभानस्यावश्यकत्वात्तस्य च प्रमारूपस्याऽसंभवात् भ्रमस्य च वस्त्वसाधकत्वाद्धटत्वादेः पटादिनिष्ठप्रतियोगितावच्छेदकत्वात्घटत्वादेः पटादिनिष्ठेप्रतियोगितावच्छेदकत्वासिद्धरतिरिक्ताऽभावकल्पने गौरवाच्च । एतेन-'घटादौ पटत्वादिवैशिष्टयांशभाने भ्रमत्वेऽपि घटत्वादौ पटादिनिष्ठप्रतियोगितावच्छेदकत्वांशे बाधकामावादभ्रमत्वमिति निरम्तम् । अथ व्यधिकरणसंबंधावच्छिन्नाभाव एव व्याधिकरणधर्मावच्छिन्नाभाव इति न तदतिरेककल्पनाप्रयुक्तगौरवावकाश इति चेत् ! न, तथापि पटादिनिष्ठघटत्वाचवच्छिन्नप्रतियोगितांतरकल्पने गौरवात् । न च घटत्वादिपर्यवसितेन घटादितादात्म्येन पटाधभावस्य क्लृप्तत्वान्न दोष इति वाच्यं, उक्तनीत्या घटत्वादिसंबंधावच्छिन्नपटादिनिष्ठप्रतियोगिताकल्पनेऽपि घटत्वादिधर्मावच्छिन्नतदकल्पनात् । न च तादृशप्रति १-द्वाविंशतितमपृष्ठे 'इति चेदित्यनेन सहास्यान्वयो बोध्यः ।
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy