SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रलो. ११] विभागवाक्ये व्यापकतालाभविचारः व्यापकतावच्छेदकधर्मावच्छिन्नव्यापकत्वस्य संसर्गत्वे बाधात् । न हि धर्माधन्यतमत्वं धर्मत्वाधवच्छिन्नसमव्यापकतावच्छेदकम् । विधेयतावत्समव्यापकतावच्छेद करूपावच्छिन्नव्यापकत्वस्य तथात्वे तु वहन्यादेव्यत्वादिना व्यापकत्वलाभप्रसंगात् । अथ विधेयतावच्छेदकाऽतिरिक्तधर्मानवच्छिन्ना व्यापकता ग्राहयेति नातिप्रसंगो, नवा वह्निभिन्नभेदादिना व्यापकत्वलाभप्रसंगो, गुरोरनवच्छेदकत्वादिति चेत् ? न, एवं सति प्रकृते बाधात् । तत्र समव्यापकताया द्रव्यत्वाद्यतिरिक्तावच्छिन्नत्वात् । 'सत् द्रव्यं संयोगी'त्यादौ संयोगादेव्यत्वादिना व्यापकत्वलाभप्रसंगाच्च । एतेन "विधेयतावच्छिन्नसमव्यापकताग्रहे नाऽतिप्रसंगो, लघुवह्नित्वादेरेवावच्छेदकत्वेऽपि विधेयतायां पारिभाषिकावच्छेदकत्वाऽनपायात् , न चैवं गौरवं, समव्यापकतावच्छेदकत्वेनोपलक्षणीभूतेनैव तत्तद्धर्मानुगमादि" त्यप्यपास्तं, तादृशधर्मे विधेयतासमानाधिकरणत्वविशेषणेऽपि संयोगादेगेंणत्वाद्यवच्छिन्नव्यापकतालाभप्रसङ्गात् । विधेयताऽभाववदवृत्तितादृशधर्मोपादानेऽपि संयोगरूपयोरन्यतरत्वेन विधेयत्वे संयोगत्वेन व्यापकत्वलाभप्रसंगाच्च । “सर्वत्र विभागवाक्ये चरमपदे तावदन्यतमत्वेन लक्षणा स्वीकार्या, धर्मादिपदानां तु तात्पर्यग्राहकत्वान्न वैयर्थ्यम्" इत्यपि न युक्तं प्रथमादि पदेष्वपि तत्स्वीकारसंभवेन विनिगमनाविरहात् । तस्मात् 'चित्रगु'रित्यादाविव सर्वेषामेव लक्षकत्वमित्यपरे ! "अन्यतमत्व एव लक्षणा, धर्मादीनां तु तदेकदेशे भेदे प्रतियोगितयाऽन्वय" इत्यन्ये । वस्तुतो 'भेद एवास्तु लक्षणा, लाघवात् । तस्य च धर्मादिभिः समं स्वयं च त्रिधाऽ. न्वयो व्युत्पत्तिवैचित्र्यादि'ति न्याय्यः पन्थाः । सांप्रदायिकास्तु-विशेषविधिनिषेधयोः शेषनिषेधाऽभ्यनुज्ञाफलकत्वान्न्यूनाधिकसंख्याव्यवच्छेदकत्वमत्र व्युत्पत्तिसिद्धमित्याहुः । अत्र व्युत्पत्तिः सव्युत्पन्नीयबोधहेतुत्वग्रहः, तत्वं च पदार्थे धर्माद्यन्यतमभिन्ना तादात्म्यतवृत्तिभेदाऽप्रतियोयोगित्वोभयसंसर्गकशाब्दबोधं प्रत्युक्तानुपूर्वीज्ञानत्वेन, तेन विपरीतव्युत्पन्नस्याऽन्यथाबोधेऽपि न क्षतिः । अन्यत्र तु 'ब्राह्मणेभ्यो दधि दातव्यं, कांडिन्याय न दातव्यं' 'ब्राह्मणेभ्यो दधि न दातव्यं, कौडिन्याय दातव्यमि'त्यादौ करणाकरणविकल्पप्रसक्त्या सामान्यपदस्य विशेषपरत्वं युक्तं, सामान्यरूपेणैव वा विशेषबोधः । नव्यास्त्वितरबाधादिसहकारेण व्यापकतानवच्छेदकरूपेणानुमितिरिवात्र पदानुपस्थितेनाऽपि विशेषरूपेण शाब्दबोध इत्याहुः । तच्चिन्त्यम, अधिकोऽन्यत्र विस्तरः। [सिद्धस्यात्मनो विशेषस्वरूपचिन्ता] तदेवं षण्णां द्रव्याणां तद्गुणपर्यायाणां च विवेक्तास्ति शरीराद्यतिरिक्तः कश्चिदात्मा स चायं "चैतन्यस्वरूपः , परिणामी कर्ता, साक्षाद्भोक्ता, स्वदेहपरिणामः, प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्टवांश्च" इति सूत्रम् [प्र० न०त०-परि०७ सू०५६] । न हि पृथग्भूतयोर्ज्ञानात्मनोः
SR No.022623
Book TitleSyadvad Rahasya
Original Sutra AuthorN/A
AuthorYashovijay Mahopadhyay
PublisherBharatiya Prachyatattv Prakashan Samiti
Publication Year1976
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy