________________
सर्गः - २ न तत्र द्वेषिणः केऽपि, सर्वे च सरला जनाः । सर्वे विद्याविनीताश्च, धनिनः शिल्पिनस्तथा ॥१११ ।। मध्ये क्षारसमुद्रस्य, वर्तते यद्यपि प्रभो ! । तथाऽपि माधुर्यगुणै-गरिष्ठो देशभूषणः ॥११२ ।। धूलिधूसरभक्ताङ्गा, मातङ्गा मदवर्षिणः । यान् दृष्ट्वा वारिवाहोऽपि, लजते राजशेखर ! ॥११३ ॥ तत्र सिंहलनामाऽस्ति, नगरं सर्वसिद्धिभाक् । रत्नद्वीपे न यद् दृष्ट्वा', वसति श्रीरचञ्चला ॥११४ ।। चतुष्के यत्र रत्नानि, शोभते पतितानि हि । भारात् संपीडितायाश्च, पृथिव्या दशना इव ॥११५ ॥ यद् दृष्ट्वा राजराजस्य, नगरी ह्रीमती सती । हिमालयं ययौ प्राणान्, हातुं तद्धि सतां व्रतम् ।।११६ ॥ तत्र कामाकृतिः श्रीमान्, कनकादिरथाह्वयः । राजाऽस्ति शत्रुवृक्षाणां, पातने चण्डमारुतः ॥११७ ।। "स्वर्णवत्यभिधा तस्य, राज्ञी रतिस्वरूपिणी । धर्मकर्मवती शील-वती स्वामिप्रियंवदा ॥११८ ।। तस्याऽहं हिंसको नाम्ना, मन्त्री राज्यप्रशासकः । राज्ञो बहुमतः शश्वनीतिशास्त्रावलोककः ।।११९ ।। तस्याऽस्ति कपिलानाम्नी, धात्री धात्रीव भाग्यतः । सरस्वतीव बुद्ध्या सा, राजमान्या विशेषतः५ ॥१२० ।। १. 'यद् दृष्ट्वा न मणिद्वीपे' इति पाठा० ।। २. 'कुबेरस्याऽलकापुरी' इति टि० ।। ३. 'सुवर्णरथसंज्ञिनः' इति, 'कनकरथसंज्ञकः' इति च पाठा० ।। ४. 'कनकवती' इति टि० ।। ५. 'सरस्वतीव बुद्ध्याऽस्याः , सुधापूर्णौ पयोधरौ' इति पाठा० ।।