SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २९ सर्गः - १ चन्द्रप्रतापे तपति, नातपन्नाश्रिताः प्रजाः । दृष्ट्वैतव्यतिरेकं किं, रविर्दिवमशिश्रियत् ? ॥२७० ।। चन्द्रराजस्य सदसि, विदुषां शतपञ्चकम् । नैत्यद्याऽपि गुरुर्मन्ये, दृष्ट्वा भीतो गतो दिवम् ॥२७१ ॥ अनेकमतसिद्धान्त-चुञ्चवः स्वस्वसम्मतम् । तिष्ठापयिषवस्तत्र, वादमाश्रित्य रेजिरे३ ।।२७२ ।। कवयः सरसं काव्यं, समस्यापूर्तिमेव च । कृत्वा राज्ञे स्वकौशल्यं, दर्शयामासुरादरात् ॥२७३ ॥ खगोलमथ भूगोलं, फलश्रुत्यादिकं५ तथा । चतुराः प्रकटीचक्रु-गणकास्तस्य सन्निधौ ।। २७४ ॥ सूर्याचन्द्रमसौ चित्रं, सभां चित्रां महीपतेः । दिदृस् इव तद्भित्ता-वालेख्यत्वमुपेयतुः ।।२७५ ।। यथा नक्षत्रसङ्घाते, चन्द्रमाः शोभतेतराम् । तथा सर्वजनौघेऽसौ, चन्द्रराजो व्यराजत ।। २७६ ।। अथैकदा भोजनादि-कर्म कृत्वा गुणावली । प्रासादे निषसादाऽसौ, निजदासीजनैर्वृता ।।२७७ ।। काचिदवीजयत् काचित्, ताम्बूलं व्यतरत् तथा । काचित् सुधासमं स्वच्छं, भृङ्गारेऽम्बु समार्पयत् ॥२७८ ॥ १. 'चन्द्रे यदा (चन्द्रभूपे -पाठा०) धृतच्छत्रा-स्तदङ्गरक्षका अमी । तदा तप्ता अप्यसुख्यन्, प्रपन्नः को न सुख्यति ।। इति पाठा० ।।' २. 'चन्द्रराजस्य सद सि, पञ्चाशत् (धीमतां) पण्डितोद्धराः । बृहस्पतिसमं शास्त्रै, राजानमन्वरञ्जयत्।।' इति पाठा० ।। ३. 'तिष्ठापयिषवः सर्वे, व्यवदन्त परस्परम्' इति पाठा० ।। ४. [भूपं]' इति पाठा० ।। ५. 'ग्रहस्थित्यादिकं' इति पाठा० ।। ६. 'व्योम्नि' इति पाठा० ।। ७. 'यस्य' इति पाठा० ।। ८. 'दिदृक्ष इव सोत्कण्ठं, क्षणं तस्थतुरद्भुताम्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy