________________
२२
चन्द्रराजचरित्रम्
श्रुत्वा वीरमती शीघ्र - मुद्द्द्घाट्य मन्दिराररम् । उवाच 'यदि मेऽभीष्टं दद्यास्तर्हि ददेंऽशुकम् ॥ २०३ ॥ मुख्योचे 'तव' किं कार्यं ?, वद शङ्कां न च क्रियाः २ । पुरः करिष्येऽभीष्टं ते, पश्चाल्लास्यामि वस्त्रकम् ' ॥ २०४ ॥ अथ सा कथयामास, 'सपल्या मम नन्दनः । चन्द्राख्योऽस्ति न मे पुत्र, इति दुःखस्य कारणम् ।। २०५ ।। वचनेन मया तव ।
कस्यचिच्छुकराजस्य, वस्त्रं हृतमतो मे त्वं, पूरयाऽऽशु मनोरथम्' ।। २०६ ।। ततः सा देव्यवधिना, ज्ञात्वोचे राजवल्लभाम् । 'न ते पुत्रोऽस्ति सम्भावी, किन्तु मन्त्रं ददामि ते ।। २०७ ।। येन ते व्योमचारित्वं, शत्रुवर्गवशीकृतिः । जलचारित्वमित्यादि - बहुकार्यप्रसाधनम्
।। २०८ ।।
भवेदतो गृहाणेमं येन चन्द्रोऽपि ते सुतः । भविष्यति न पुत्रार्थं, शोकं कर्तुं त्वमर्हसि ।। २०९ ।। सुखवाञ्छा यदा ते स्यात्, तदा चन्द्रकुमारकम् । पुत्रवत् पालयेर्नित्य-मन्यथा दुःखमाप्स्यसि' ।। २१० ।। इति श्रुत्वा निराशाऽभूद्, देवी किन्तु ततः स्फुटम् । मन्त्रं गृहीत्वा वस्त्रं च दत्त्वा नत्वा सुराङ्गनाम् ।। २११ ।। आजगाम गृहे प्रात-र्न च तद्वेद कश्चन । सर्वोपकरणेनाऽऽशु, मन्त्रं साधयति स्म सा ।। २१२ ।।
,
१. 'वद' इति पाठा० ।। २. 'तव लज्जां विहाय च ' इति पाठा० ।। ३. 'पुत्रस्य ' इति पाठा० ।।