SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सर्गः - १ समये सुषुवे रम्यं, बालकं चन्द्ररूपिणम् । येन राजाऽतिमुमुदे, रङ्कवद् धनलाभतः ॥११४ ।। याचकेभ्यो धनं भूरि', विततार दयापरः । तदादि याचकत्वं ते, विजहुः स्वैरलाभतः ॥११५ ।। द्वादशे दिवसे राजा, सम्भोज्य स्वजनांस्तदा । 'चन्द्रे' त्याख्यां व्यधात् स्वप्न-योगतो जगतीपतिः ॥११६ ।। पञ्चधात्रीभिरनिशं, पाल्यमानः स बालकः । शुक्लपक्षे शशीवाऽसौ, ववृधे नृपसम्मदैः ॥११७ ।। स्वाङ्गुष्ठमानने कृत्वा, पीयूषमिव तं पपौ । क्रमशोऽसौ कुमारत्वं, जहार नृपनन्दनः ॥११८ ॥ तं वीक्ष्य दम्पती चित्ते, भेजाते मोदसम्पदम् । शिवौ स्कन्दं जयन्तं च, शचीशक्राविवाऽनिशम् ।।११९ ॥ मधुरैर्वचनैर्नित्यं, पितरौ तोषयन् शिशुः । रूपेण कामदेवं स, लज्जयामास वीरसूः ।।१२० ॥ एवं तस्य ययुर्वर्षा-ण्यष्टावथ महीपतिः । सर्वाः कलाः शिक्षयितुं, कलाभ्यासमकारयत् ॥१२१ ।। इतः सर्वजनाह्लादी, सुरभीकृतदिङ्मुखः । कामदेवस्य सुसखा, वसन्तर्तुः समागमत् ॥१२२ ।। कोकिलो हृदयग्राहि, चुकूज विपिने मुहुः । माकन्दमञ्जरीपुञ्ज-मरन्दास्वादमादवान् ।।१२३ ।। १. '-ऽधनीव' इति पाठा० ।। २. 'बहुधनं' इति पाठा० ।। ३. 'धनलाभतः' इति पाठा० ।। ४. 'कुमारस्य' इति पाठा० ।। ५. 'शची-पुरन्दरौ यद्वज्जयन्तमुदधिर्विधुम्' इति पाठा० ।। ६. '-मत्तवान्' इति टि० ।।, इतोऽग्रे'[माकन्दमञ्जरीस्वाद-काषायितगलः सुखम्] ' इति निष्कासितः पाठो दृश्यते।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy