________________
सर्गः ७
विपद्य सोऽमात्यवरोऽभवत् तव,
१
नृपेन्द्र ! धीमान् सुमतिः सुकर्मतः ।। १९५ ।।
उपाश्रयाभ्यासनिवासकारिका,
सुसंयमिन्या गलपाशरोधनात् ।
गुणावलीनामवधूरजायत ।। ९९६ ।।
विपद्य राजन् ! सुरसुन्दरी तव,
महीपकन्या तिलकादिमञ्जरी,
मिथ्यादृगासीन्नृप ! या, विपद्य सा । बभूव कालक्रमतोऽत्र भूतले,
महीपकन्याऽभिधया च प्रेमला ।। १९७ ।।
बभूव तस्मात् किल कुष्ठिनो वरात्,
कलङ्करोपो विषकन्यकोक्तितः ।
न जातुचित् कर्म पुराकृतं वृथा,
२८७
शुभाशुभं देहवतां हि जायते ।। १९८ ।।
विपद्य रौद्रं प्रविचिन्त्य साध्विका,
बभूव कुष्ठी कनकध्वजाभिधः ।
न वेत्ति मन्दो गतिमस्य कर्मणो,
बलीयसीं, पश्य नरेश ! तां धिया ।। १९९ ।।
तनूरुहोत्पाटनतस्तवाऽभवद्,
विरोध उच्चैरनिशं विमातृतः ।
१. ‘शुक्या: सुरक्षश्च महीपते ! तवा - ऽभवत् प्रधानः सुमतिर्विपद्य सः । खगान्तकाले करुणाकरत्वतः, शुभं फलं मन्त्रिवरोऽधिजग्मिवान् ।।' इति पाठा० ।।