SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६२ चन्द्रराजचरित्रम् इहैव तस्माद् वस यावदावयोः, गुणोज्वलां त्वां नयनस्य तारकाम् । व्रजन्तु कालास्तनयेऽनुपश्यतोः, सुखं सदाऽन्ते वयसि प्रतिष्ठयोः' ।। ७५ ॥ जगाद 'कान्तिपुरेव सैत्यनु, न जातु दृष्टा क्वचनाऽपि ते पृथक् । विशेषतः प्रोक्तमथो सुतास्थिति गृहे स्वभर्तुस्त्रिदिवौकसां पुन:' ।। ७६ ॥ पुनर्न मोहं विदधामि, न प्रियं, त्यजामि पूर्वानुभवात् सचेतना' । निशम्य तन्नैजसुतावचस्तदा, विचारयमासतुराशु दम्पती ।। ७७ ॥ 'धनं सुता स्यात् परकीयमित्यदः, सुनिश्चितं, सा न पितुर्गुहे क्वचित् । वसेत् समृद्धेऽपि कदापि नो रसात्, न मन्यते तत्स्वमियं यतः किल ।। ७८ ॥ विचारिते तच्च विभाति युक्तिमत्, स्वभर्तुरर्धाङ्गसमा हि सा स्मृता । १. 'अये बहु व्याहतमद्य ते पति-र्न मन्यतेऽसौ गमनाय तत्परः । तवाऽस्ति किं सम्प्रति हृद्गतं वद, व्रजिष्यसि स्थास्यसि वाऽत्र पुत्रिके ! ।।' इति पाठा० ।। २. 'जगाद सा तिष्ठति यत्र विग्रह-श्छायाऽपि तस्यानुसमेति तत्र हि । इति प्रमाणेन पितः ! सदा निज-प्रियानुगा स्यामहमप्यदीनहत् ।।' इति पाठा० ।। ३. 'त्यजामि तात ! क्वचिदप्यहं प्रभो ! ।' इति पाठा० ।। ४. 'धनं हि कन्या' इति पाठा० । ५. 'कदाऽपि रक्ता भवति प्रकामतः, पत्युहे शून्यतरेऽपि रज्यते ।।' इति पाठा०।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy