SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४९ सर्गः - ७ अमन्दमानन्दमवाप तत्क्षणे, मुदश्रुभिर्भूमितलं सिषेच च ॥ १४ ॥ जगाद दूतो नृपवाचिकं तदा ऽथ तां, निशम्याऽऽह गुणावली ततः । 'प्रकाशनीयं पुरतो न कस्यचित्, त्वयेति वृत्तं भ्रमतोऽपि कर्हिचित् ।। १५ ।। विधाय तस्याऽप्रतिमां च सत्कृति, ददौ पुरस्कारपुरस्सरं दलम् । ययौ स दूतो मुदितस्ततो द्रुतं, निवृत्य धीमान् विमलापुरं प्रति' ।। १६ ।। सुगुप्तमप्येतमुदन्तमञ्जसा, परम्परातो जनता व्यबुध्यत । प्रतीक्षमाणा च नृपागतं घना गमं लतेवाऽऽस नितान्ततापिता ।। १७ ।। निशम्य तद्वत्तमिवाऽऽकुला भृशं, बभूव सा वीरमती भिया द्रुतम् । निजे हृदि ध्यातवती च कुक्कुटः, 'कथं वपुः सोऽद्य गतो नृजन्मनः ।। १८ ।। १. 'भ्रमात्' इति टि० ।। २. 'विलिख्य पत्रं प्रददौ गुणावली, विधाय तस्याऽतिशयां हि सत्कृतिम् । ययौ स दूतः प्रतिलब्धसत्कृतिः, प्रमोदतस्तद्विमलापुरं प्रति ।।' इति पाठा० ।। ३. 'गृहे गृहे चन्द्रनृपस्य सा कथा, बभूव राजा नररूपवानिति । भवेद् यदा पौरजनस्य शोभनो, भाग्योदयस्तर्हि स आगतो भवेत् ।।' इति पाठा० ।। ४. 'अदो वचो वीरमतीश्रुतिं यदैत्, तदाऽभवत् सा क्षुधितेव पन्नगी । दध्यौ च यं ताम्रशिखं व्यधामहं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy