SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् आबाल्यब्रह्मनिष्ठं तं, गुरूणां गुरुनायकम् । श्रीनेमिसूरिसम्राजं, वन्दे कारुण्यविग्रहम् ॥ ५ ॥ शान्त्याचान्तमृदुस्वान्तं, भव्यसेव्यपदाम्बुजम् । वन्दे विज्ञानसूरीशं, महान्तं सुधियं गुरुम् ॥ ६ ॥ कुन्देन्दुघनसाराभां, कलहंसासनां सुरीम् । मूकस्याऽपि वचस्वित्व-कारणं नौमि शारदाम् ॥ ७ ॥ क्वाऽहं मन्दमतिर्नूनं, कूपमण्डूकसन्निभः । क्वाऽसौ महाधीः श्रीचन्द्र-स्त्रिजगच्चन्दिसद्यशाः॥ ८ ॥ तथाऽपि तस्य चरितं, वच्मि त्रैलोक्यपावनम् । श्रेयसे हि कृतो यत्नो, न्यूनोऽपि न विगीयते ॥ ९ ॥ जम्बूद्वीपस्य भरत-क्षेत्रे पूर्वदिगाश्रया । 'आभे'ति नाम्नी नगरी, विद्यते पूधुरन्धरा ॥ १० ॥ आभेव सर्वजगतः, सर्वसंस्कारबन्धुरा । यामपेक्ष्य सुरेन्द्रस्य, नगरी न गरीयसी ॥ ११ ॥ नाऽलं साऽप्यलका वाऽपि, रत्नद्वीपोऽथवा कुतः ? । तस्याः समत्वं लभते ?, किमन्धुः सिन्धुवद् भुवि ? ॥ १२ ॥ १. 'वन्दनीयपदाम्बुजम्' इति पाठा० ।। २. 'महान्तं करुणालयम्' इति पाठा० ।। ३. 'प्रणम्य शारदां चन्द्र-चरित्रं प्रणयाम्यहम्' इति पाठा० ।। ४. 'क्वाहं लघिष्ठो भूमिष्ठः, कूपमण्डूकवत्क्रमः । क्वाऽसौ दविष्ठः श्रीचन्द्रस्त्रिजगच्चन्दितप्रभः ।।' इति पाठा० ।।, इतोऽग्रे- 'प्रकाशयति यो नित्यं, भुवनत्रितयं रुचा । कथं न स्वाश्रयां वाणी, ममाऽसौ द्योतयिष्यति ।।' इति निष्कासितः श्लोको दृश्यते ।। ५. 'स्वपराणां प्रमोदाय, भविनां तन्न संशयः' इति पाठा० ।। ६. 'रत्नसङ्कला' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy