SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सर्गः - ६ २२९ श्रीसूर्यकुण्डप्रविलोकनाय, श्रीप्रेमलाऽगाद् विहगेन सार्द्धम् । प्रफुल्लपङ्केरुहशोभितान्तः, सुनिर्मलाद्भिश्च खगं सिषिञ्च ।। ६७ ।। जलप्रभानिर्मलकान्तिरेष, स्वर्वाहिनीं वीक्ष्य जहास किं वा । तथा विभाति स्म च पद्मषण्डे, हंसादिनीडोद्भवराजितः सः ॥ ६८ ॥ तीरे निषण्णा नरराजपुत्री, विलोकयमास तदीयशोभाम् । इतो विचारं कृकवाकुरेष श्चकार तां वीक्ष्य विषण्णचेताः ।। ६९ ॥ "नटोऽपि मां भ्रामयति स्म देशं, देशं तथाऽपि प्रशमं न यातम् । कर्माधुना मे कृकवाकुरूप स्तिष्ठामि यत् पञ्जरमध्यवर्ती ॥ ७० ॥ पुनर्नरत्वं न हि जातु भावि, प्रियासमीपे मम कुक्कुटस्य । रात्रिंदिवं तद्विरहं विलोक्य, विदीर्यते मे हृदयं स्थितस्य ॥ ७१ ॥ व्यत्यैद् युवत्वं मम, कोऽप्युपायो, ___ नाऽद्याऽपि दृष्टौ नरतोपलब्धेः । १. 'सुनिर्मलं तं प्रविलोकते स्म ।। इति पाठा० ।। २. 'स्म बहुप्रकारं' इति पाठा० ।। ३. '-रुच्चै-' इति पाठा० ।। ४. 'हृदि स्वदुःखम् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy