SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ १८३ इति मनसि विचिन्त्य वक्त्रचन्द्रं, प्रथममसौ प्रविलोक्य नैजवध्वाः । तदनु निजयशःप्रगाणहर्षात्, सरसमतिः कृकवाकुरप्यदित्सत् ॥ ६२ ।। 'सुरुचिरनिजपञ्जरस्य यतैः, समकृषदाशु स चञ्चतः शलाकाम् । बहुतरमणिमण्डितं ततोऽध चषकमपातयदस्य तोषकृत्यै ।। ६३ ।। शिवकुमरनटः सविस्मयं तत्, प्रकटतया कृकवाकुतोषलब्धम् । चषकमनुपमं समीक्षतां द्राक्, निजशयतो जगृहे तथा प्रहृष्टः ।। ६४ ॥ चषकमथ करे निधाय चन्द्र क्षितिपतिकीर्तिमसौ जगौ वरेण्याम् । तदनु परिषदाशु वस्त्रभूषा दिकमतिमूल्यमदाच्च दानमस्मै ।। ६५ ॥ मणिखचितविभूषणेन सजं, शिवकुमरं प्रसमीक्ष्य तत्सुताऽपि । नहि निजपितरं खलु व्यजानाद्, __ भवति हि वेषविभेदतो विमोहः ॥६६ ॥ १. 'लघुलघु' इति पाठा० ।। २. 'समवकृषत् स च चञ्चुतः शलाकाम् ।' इति पाठा० ।। ३. 'शिवकुमरनटो तथा सभाऽसौ' इति पाठा० ॥ ४. 'तं' इति पाठा० ।। ५. 'तत्प्रियाऽपि' इति पाठा० ।। ६. 'मम पतिरिति नो व्यजानाद्, दमरसमाकृतितां गतो यतोऽसौ ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy