SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सर्गः - इत्थं प्रधानवचनं प्रणिशम्य राज्ञी, हर्षेण तं प्रणिजगाद विशालबुद्धिम् । 'त्वं सेवकोऽसि मम सर्वत एव मान्यो, नो ते कदापि वचनं परिलोपयिष्ये' ।। ६२ ।। तस्याः प्रसादमधिगम्य विचिन्त्यते स्म, 'व्याघ्री मया निजवशेऽक्रियताऽधुना हि' । तावत् सुपञ्जरगतं चरणायुधं तं, दृष्ट्वा जगाद किल वीरमतीं स मन्त्री ।। ६३ ।। 'देवि ! त्वमेनमिह पञ्जरमध्यसंस्थं, कृत्वा सदाऽवसि खगं ? किमु देवतां वा' ! । कृत्वा वशे समधिरक्षसि, तद्वदस्व', श्रुत्वेति साऽपि कपटं प्रविधाय चोचे ॥ ६४ ॥ 'वध्वाः प्रमोदनकृते कृकवाकुमेतं, क्रीत्वा धरामि ननु काञ्चनपञ्जरेऽस्मिन् । भोज्यं जलं यदवधि प्रददामि मन्त्रिन् !, १६३ स्थास्यत्यसौ तदवधि प्रबलानुरागात् ।। ६५ ।। प्रातः प्रति प्रतिदिनं परमेश्वरस्य, ध्यानाय बोधयति मां कृकवाकुरेषः ' । श्रुत्वा जगाद सचिवो 'वद राजमात स्त्वं स्वं यथेच्छमिति विश्वसिमीह नाऽहम् ।। ६६ ।। क्रीतस्त्वया नहि, न तेऽविदितो ममाऽस्ति, कोशश्छलं तव समग्रमहं प्रवेद्मि । १. ‘-पञ्जरतः किमर्थं, संस्थाप्य रक्षसि खगं ? किमु देवताऽम्बा ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy