SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ - पुनः स नाऽऽगादयमेव चाऽऽगात्, कुष्ठी मदीये शयने निविश्य । मां प्रेमवाचा न्यगदद् विधातुं, प्रीतिं जघन्यां छलनापटिष्ठः ।। १८८ ॥ नाऽऽकर्णयं तद्वचनं यदाऽहं, तदा समागात् कपिलाऽस्य धात्री । प्रत्यङ्मुखीं मां परिबोधयन्ती, जगाद 'तेऽयं न पतिर्द्वितीयः ' ।। १८९ ।। सूर्योदयो यावदभून्न तावत्, तत्रैव तस्थौ परिबोधयन्ती । अगृह्णतीं तद्वचनं भृशं मां, निर्भर्त्स्य शीघ्रं बहिराजगाम ।। १९० ।। रुदत्यसौ तत्र जगाद तार 'मागम्यतां भो ! विषकन्यकेयम् । यत्सङ्गतः कुष्ठरुजाऽभिभूतो ऽभवत् कुमारः कनकध्वजोऽसौ ' ।। १९१ । निशम्य तस्या वचनं तदैव, समागमत् तस्य पिता विषण्णः । १४१ परिच्छदैः सार्धमयं समुच्चै रुरोद संछद्मकलाविधिज्ञः ।। १९२ ।। स सिंहलेशो मयि यद्विधेयं, व्यधात् समग्रं न हि चाऽस्ति शेषः । ? इदं मया ते पुरतः समस्तं, न्यगादि यत्तेऽभिमतं कुरुष्व ।। १९३ ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy