SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सर्गः सा प्रेमला भूमिपतिं विवक्षुः, - ३ निर्दोषतां स्वां न परं कदाचित् । सम्बोध्य तद् भूपमुदग्रयुक्ते राहूय तस्या वचनं निशम्यम् ।। १६७ । विश्वास्यमन्यस्य वचो भवेच्चेत् कुतो न तोकस्य निजस्य मन्त्रिन् ! | कृत्वाऽनु तापाद् वरमादितो वा विचार्य कार्यं यदभीप्सितं स्यात् ।। १६८ ।। तदुक्तमाकर्ण्य सुधीः स मन्त्री, कृताञ्जलिर्भूपतिमाचचक्षे | परीक्षिता नाथ ! मया भृशं हि ।। १६९ ।। 'कन्या न ते सा विषकन्यकाऽस्ति, सद्यो वधो युक्ततरो न तस्या विचार्य कार्यं भवताऽपि सम्यक् । मुग्धाऽपि सा ते तनया यतस्ता १३७ मानाय्य तस्या वचनं शृणु त्वम् ।। १७० ।। मनोगतं तद्वचनं निशम्य, पश्चाद् यथेष्टं कुरु हे नृपाल ! । तां चेत् तथाऽभोत्स्यत शीघ्रमेव, प्रावासयिष्यत् स्वगृहात् तदैव' ।। १७१ ।। १. ' सा प्रेमला भूमिपतिं विवक्षुः परीक्षिता स विषकन्यका न । संबोध्य भूपं नृपकन्यकां ता-माहूय तस्या वचनं निशम्यम् ।।' इति पाठा० ।। २. ' विदेशिनोऽदो वचनं निशम्य, कर्तुं न चेत्थं ननु जाघटीति । पश्चादवश्यं परिशोचनीयं, तत् किं हि कृत्यं ? परिशोच्यते यत् ।।' इति पाठा० ।। ३. 'चाण्डालवाक्यं प्रनिशम्य मन्त्री' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy