________________
१३४
चन्द्रराजचरित्रम् स्वपापकुष्ठी किल सोऽद्य सद्य,
गिरिच्युतो गेहशिलां निहन्ति ॥ १५१ ।। कृतापराधाऽपि न सन्ततिर्वा,
पित्रोर्वधाज्ञाविषयः कदापि । सन्देहपात्रं परवाग्गृहीता,
करोत्यनर्थं नृप ! तत्प्रसीद' ॥ १५२ ॥ राजा न तेषां वचनं शृणोति,
स्म क्रोधसंरक्तमुखाम्बुजश्रीः । कठोरचित्तो यदि भूपतिः स्यात्,
कुर्वन्तु किं तत्र परे मनुष्याः ।। १५३ ॥ जग्मुर्गृहं ते विफलप्रयत्ना,
नृपप्रवृत्तिं हृदि दूषयन्तः । राजा पुनस्तं निजगाद 'कस्मा
नाज्ञा मदीया परिपाल्यतेऽत्र ।। १५४ ।। स्वं जीवितं चेदभिकाङ्क्षसि त्वं,
तदाऽऽशु कार्यं प्रविधत्स्व चैतत् । नो चेदमुष्याः सह जीवितेन,
जीवस्त्वदीयोऽपि गमिष्यतीति ।। १५५ ।। राजाज्ञया ते परिगृह्य बालां,
जनङमाश्चेलुरितस्तदैव ।
१. 'राजन्नमुष्याः परिरक्षणं हि, कार्यं त्वया, तस्य न कुष्ठरोगे । असौ कुमारी तव हेतुभूता, नातोऽविचार्यं विदधाति साधुः ।।' इति पाठा० ।। २. 'जातेऽपराधेऽपि न सन्ततौ द्रा-गेवं प्रकुर्वन्ति विपश्चितो हि । न दुर्जनानां वचनैः प्रकोपं, कुरुष्व वाक्यं शृणु चैकमस्याः ।।' इति पाठा० ।। ३. 'दुराग्रहो राजनि शोभते न ।' इति पाठा० ।। ४. 'चाण्डालाः' इति टि० ।।