________________
१२८
चन्द्रराजचरित्रम्
तयोरथेत्थं ब्रुवतोः समागात्,
कुमारधात्री कपिलाभिधाना । 'वधु ! त्वमित्थं परिवर्त्य वक्त्रं,
स्थिताऽसि किं हा ! प्रथमे प्रसङ्गे ।। १२१ ।। यथा वदत्येष तथा विधत्स्व,
लजां परित्यज्य विरूढरागा' । कथं वरोऽन्यो भविताऽयमेवो
पायंस्त सौराष्ट्रनृपानुरोधात्' ।। १२२ ॥ निशम्य तद्वाक्यमुवाच बाला,
रोषान्विता 'रे स्थविरे ! कथं त्वम् । ब्रवीषि मिथ्या चरमेऽपि जाते,
वयस्यभूद् वाग् विमला न किं ते ? ।। १२३ ।। सद्वंशजा शीलवती सती किं,
मिथ्यावचोभिश्छलिकर्मताऽहीं ?। सन्तिष्ठतां दूरतरे तवाऽयं,
वरो मदीयो न हि कान्त एषः' ।। १२४ ॥ अथ प्रभाते कपिला समुच्चै
स्तरं विलापं परिकुर्वतीत्थम् । जगाद हा हा' कनकध्वजस्य,
कायोऽभवत् कुष्ठरुजाऽभिभूत:६' ।। १२५ ।।
१. 'नवीनकाले ।' इति पाठा० ।। २. 'श्रीप्रेमला' इति पाठा० ।। ३. 'नो' इति पाठा० ।। ४. '-च्छलितुं न शक्या' इति पाठा० ।। ५. 'मे' इति पाठा० ।। ६. '-ऽभ्युपेतः' इति पाठा० ।।।