________________
८४
चन्द्रराजचरित्रम् इतो विवाहवेलायां, वेदविज्ञैः पुरोहितैः । वेद्यां वधू-वरौ 'सार्ध-मानीतौ विधिपूर्वकम् ।।३५४ ।। विवाहयाञ्चक्रुरुभौ', मन्त्रोच्चारणपूर्वकम् ।। न कदाचिद् विधिज्ञो हि, विधिं त्यजति शाश्वतीम् ॥ ३५५ ।। इतो गुणावली श्वश्रू-मुवाच चकिता सती । 'अयं वरस्तवैवाऽस्ति, पुत्रः सत्यं वदाम्यहम् ॥३५६ ।। प्रेमला मेऽभवन्मातः !, सपत्नीह न संशयः । कथं वा तव पुत्रस्या-ऽभूदत्राऽऽगमनं वद' ॥३५७ ।। तदा वीरमती प्राह, 'पुत्रि ! भ्रान्ताऽसि साम्यतः । नाऽयं तव पतिः किन्तु, सैंहल: कनकध्वजः ।।३५८ ॥ मया प्रागेव कथितं, चन्द्रादप्यस्ति रूपवान् । लोकोऽत्र भुवने पुत्रि !, स सम्प्रति विलोक्यताम् ।। ३५९ ॥ सुप्रयुक्तेन मन्त्रेण, गारुडेणाऽहिवत् तव । पतिरस्ति कृतस्तम्भः, पुत्रि ! मा संशयं कृथाः५ ॥३६० ।। मुग्धे ! मुधा भ्रमो नैव, कर्तव्यश्चन्द्रगोचरः । लक्षाधिका जनाः पृथ्व्यां, वर्तन्ते तादृशाः किल' ॥३६१ ॥ एवं श्वश्रूवचः श्रुत्वा-ऽप्यसौ नैव गुणावली । प्रतीयाय हि प्रत्यक्षे, न प्रमाणमपेक्ष्यते ॥३६२ ।। जामातृरूपं संप्रेक्ष्य, मकरध्वजभूपतिः ।। प्रहृष्टः प्रेमलाभाग्यं, प्रशशंस मुहुर्मुहुः ॥३६३ ।। १. 'सम्यग्-' इति पाठा० ।। २. '-ञ्चकारोभौ' इति पाठा० ।। ३. 'संदेहं मा कृथा वृथा' इति पाठा० ।। ४. 'सद्वरः' इति पाठा० ।। ५. 'यथा गारुडमन्त्रेण, सर्पो भवति निर्विषः । तथा तव पतिः पुत्रि !, मन्त्रेण कीलितोऽस्ति हि ।।' इति पाठा० ।।