________________
तस्मिज्जाग्रति तद्रात्रेः, प्रहरेऽतिगते सति । अलक्षितं ददंशाऽहि-जिनदत्तं सुनिद्रितम् ॥३०५॥ प्राबोधयल्लघुभ्राता, ज्येष्ठं स्वं बान्धवं तदा । नाऽसौ प्रबुबुधे किन्तु, निद्रया हृतचेतनः ॥ ३०६॥ ततोऽज्ञासीत् स मे भ्राता, गाढनिद्रां गतोऽधुना । एवं सुप्तस्य रजनी, निःशेषा समजायत ॥३०७॥ अजायत तदाऽतीव - चिन्तासन्तानसङ्कलः । निश्चेष्टं भ्रातरं दृष्ट्वा, व्यसदद् विजने वने ॥३०८ ॥ रुरोद बहु हा दैव !, किं त्वया पितृबन्धुतः । वियोगो दुःसहोऽदायि, किं करोमि क्व याम्यहम् ! ॥३०९॥
प्रपद्ये शरणं कं च, विललापतरां भृशम् । नाऽऽश्वासदायकः कश्चि- दासीत्तस्याऽऽपदागमे ॥ ३१०॥
60
एवं प्ररुदतस्तस्य, कियान्कालो व्यतीतवान् । ततः स स्थिरमात्मानं कृत्वा चिन्तितवानिदम् ॥३११॥
?
निजबन्धोर्मृत्युकृत्यं, करोमि तदनन्तरम् । अग्निदाहं करिष्यामि, कोऽपि ग्रामः समीपगः ॥ ३९२ ॥ महीरुहं समारुह्य, पश्यताऽथ दिशोदिशम् ।
दिशि याम्यामपश्यच्च ग्राममेकं समीपगम् ॥३१३॥
"
?
जिनरक्षितोऽथ वस्त्रेण बन्धोर्देहं तरोर्द्रुतम् । शाखायां सुदृढं बद्धवा, दक्षिणस्यां प्रयातवान् ॥३१४॥ रुदन् गच्छन् कियद्दूरे, नगरं प्राप्तवानसौ । संगृह्णन्नश्रुबिन्दूत्थ- मौक्तिकानि मुहुर्मुहुः ॥३१५॥
केनचिच्छ्रेष्ठिना तत्र, लुब्धेन स निरैक्ष्यत । अहो बालो विचित्रोऽयं, मौक्तिकक्षारको मुहुः ॥३१६॥
विविध हैम रचना समुच्चय