SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तत्रौषधिप्रभावस्तु, प्रत्यक्षेणैव दृश्यते । लक्ष्मणो जीवितः पूर्वं, सञ्जीवन्येति श्रूयते ॥२२१॥ अधस्तादस्य वृक्षस्य, लते ये द्वे विनिर्गते । तत्प्रभावोऽप्यचिन्त्योऽस्ति, कर्णं दत्त्वा निशम्यताम् ॥२२२॥ पत्राशनेन चैकस्यां, अक्षिभ्यामश्रुबिन्दवः । पतन्त एव जायन्ते, मौक्तिकानि च तत्क्षणे ॥२२३॥ द्वितीयस्या लतायाश्च, पत्राणां भक्षणेन च । सप्ताहाभ्यन्तरे भोक्तू-राज्यप्राप्तिर्भवेद् ध्रुवम् ॥२२४॥ एवं प्रभावसम्पन्ने, लते एते सुविश्रुते । भवद्भिस्ते प्रयुज्येतां, यथाकालं यथाविधि ॥२२५॥ कथां कथयतस्तस्य, मुखाद् भारण्डपक्षिणः । वार्ता इमाः श्रुताः श्रेष्ठि-जिनदासेन सादरम् ॥२२६॥ ततो जाते प्रभाते तु, वृक्षात्तस्मादवातरत् । तदधःस्थलतायुग्म-पत्राणि स समाचिनोत् ॥२२७॥ नीरे न्यूने नदी प्रातः, सुतरां श्रेष्ठिसत्तमः । उत्ततार तदा तूर्णं, समुत्साहितमानसः ॥२२८॥ समुत्तीर्णनदीकोऽसौ, सानन्दं गृहमाययौ । कालं स यापयामास, पत्नी-पुत्र-समन्वितः ॥२२९॥ एकदा चिन्तयामास, जिनदासो विचक्षणः । ब्राह्मे मुहूर्त उत्थाय, श्रीजिनेन्द्रं हृदि स्मरन् ॥२३०॥ पूर्वसञ्चितमत्कर्मो-दयेनैव विनाशिता । सर्वह्निः खण्डशोऽदायि, देयं पूर्वभवे यतः ॥२३१॥ जिनचैत्यविहीनेऽस्मिन्, ग्रामे जातु न जायते । आगमो मुनिवर्याणा-मुपदेशस्तु दुर्लभः ॥२३२॥ श्रीजिनदासश्रेष्ठिकथा 5
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy