SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ? अवशिष्टं न ही पुण्यं तदा तद्ग्रहणेन किम् ? | प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१३७॥ , इति निश्चित्य मनसा, तं खण्डं त्यक्तवानहम् । अत एव ग्रहीष्यामि न किञ्चिद्वस्तु साम्प्रतम् ॥१३८॥ एवमुक्त्वाऽग्रतो यान्तं जिनं धर्मोऽब्रवीत् पुनः । गृहाण किञ्चिद्रलं त्वं, सर्वेप्सा चेन्न ते सखे ! ॥१३९॥ अथाऽपि नाऽग्रहीत् किञ्चि-ज्जिनदासस्तदा ततः । प्रत्येकं बालकाभ्यां तु, सरलं मोदकद्वयम् ॥१४०॥ पाथेयं धर्मदासेन, दत्तं स्वोपकृतौ मुदा । न स्वीकृतं तद् बालाभ्यां पितुराज्ञानुसारतः ॥ १४१ ॥ ( युग्मम् ) हेतौ जिज्ञासिते तत्र, धर्मदासेन हार्दतः । जिनदास उवाचाऽति - मार्मिकं वचनं तदा ॥ १४२ ॥ यस्य भोजनमात्रेण, सञ्जाता ताडना मम । मोदकादनसक्तानां न जाने किं भविष्यति ? ॥ १४३ ॥ " " अतोऽहं प्रार्थये श्रेष्ठिन् !, मोदकग्रहणाद् वरम् । निखिलापत्तिहेतूनां तेषामग्रहणं ननु ॥ १४४ ॥ 1 एवं जिनवचः श्रुत्वा, धर्मदास उवाच तम् । यदि त्वं शङ्कसे लातुं, तर्हि मा लाहि मोदकौ ॥१४५॥ 46 दम्पत्योर्न ददे किञ्चित्, किन्तु बालकहेतवे । चतुष्टयं मोदकानां साग्रहं प्रेमपूर्वकम् ॥१४६॥ " तदपि तं गृहीत्वा ते सर्वे ग्रामाद् बहिर्ययुः । , तरुच्छायां समाश्रित्य वसन्ति स्म यथारुचि ॥ १४७ ॥ ( युग्मम् ) अन्येद्युरग्रे गच्छद्भि- विपिने तैश्च सङ्गताः । मध्याह्ने विमलापुर्यां वास्तव्याः काष्ठहारकाः ॥१४८॥ विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy