SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्वप्रियायाः सुधीरायाः, न्याय्यं श्रुत्वा वचस्तदा । तथ्यत्वाज्जिनदासोऽपि, साधु साध्वन्वमोदयत् ॥६५॥ कार्ये दासी रतौ रम्भा, भोजने जननीसमा । विपत्तौ मन्त्रिणी धीरा, नारी या सा तु दुर्लभा ॥६६॥ गाम्भीर्यं च तयोर्ज्ञात्वा, हृष्टाः पौर्यो गृहं ययुः । जिनदासस्य वृत्तं ता, धर्मदासं न्यवेदयन् ॥६७॥ भवता भोजितः श्रेष्ठिन्, ग्रामः सर्वोऽयमादरात् । किन्तु ग्रामाद् बहिः केचिदागताः परदेशिनः ॥६८॥ अनाहूतैर्न गन्तव्यमिति सिद्धान्तवादिनः । नाऽत्राऽऽगच्छन्ति ते भोक्तुं, भूरिक्षुत्पीडिता अपि ॥६९॥ सर्वस्मिन् भोजिते तुष्टे, तव पत्तनसन्निधौ । एक एवाऽवशिष्टोऽयं, सकुटुम्बो न तद् वरम् ॥७०॥ धर्मदासोऽपि तच्छ्रुत्वा, धर्मकर्मधुरन्धरः । प्राहिणोत् सेवकाशीघ्रं, तान् समानेतुमादरात् ॥७१॥ आकारितस्तदा तेन, सादरं साग्रहं तथा । जिनदासः कुटुम्बेन, धर्मदासालयं ययौ ॥७२॥ धर्मदासोऽपि धर्मात्मा, जिनदासं समागतम् । . प्रत्युत्थायाऽथ सत्कृत्य, वरासने तमासदत् ॥७३॥ मिथः कुशलवार्तान्ते, भोजनार्थं न्यवेदयत् । मानेन चाऽऽत्मना सार्द्ध, सर्वं भोज्यमुपाहरत् ॥७४॥ भोजनावसरे तत्र, धर्मदासेन धीमता । जनान् दर्शयितुं सर्वा-नात्मवैभवविस्तरम् ॥७५॥ प्राङ्गणे लोकसान्निध्ये, तेन कीर्त्यभिलाषिणा । स्वर्णस्य स्थापिताः स्थाल्यः, प्राप्ता या दैवयोगतः ॥७६॥ विविध हैम रचना समुच्चय 40
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy