SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ महत्तराश्रीयुतयाकिनीमुखान्निशम्य गाथां गहनां बुधाग्रणीः । तदर्थबोधे स्खलितो य आत्मवि नमोऽस्तु तस्मै हरिभद्रसूरये ॥४॥ जिनाञ्चितश्रीभटसूरिपादयोः, समर्पितात्मा जगृहे च संयमम् । उपेयिवान् स्वान्यकृतान्तकौशलं, नमोऽस्तु तस्मै हरिभद्रसूरये ॥५॥ स्फुरन्मतिः सूरिपुरन्दरश्च यो, दृढव्रतः क्ष्मातललोकपूजितः । सार्वागमज्ञानकलाकलाधरो, नमोऽस्तु तस्मै हरिभद्रसूरये ॥६॥ श्रुताब्धिमुन्मथ्य विचक्षणो महान्, व्यरीरचद् वेदयुगाब्धिभूमिताः (१४४४) । कृती कृतीर्मुक्तिपथप्रदर्शिका नमोऽस्तु तस्मै हरिभद्रसूरये ॥७॥ यदीयवागार्हतदर्शनालयप्रवेशने द्वारमिवाऽस्ति साम्प्रतम् । भवार्तितापादितशान्तिदायिने, नमोऽस्तु तस्मै हरिभद्रसूरये ॥८॥ इत्थं स्तुतः श्रीहरिभद्रसूरिः, पुण्याभिधानः स्तवनाष्टकेन । श्रीनेमिसूरेरमृताख्यसूरेहेमेन्दुनाऽऽसाद्य गुरुं च देवम् ॥९॥ 26 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy