SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 16 जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव ॥ २१ ॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वद्दर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे । जातञ्च सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाऽस्त्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तर्ज्योतिः, परमानन्दश्च सम्प्राप्तः ॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुस्तव, समागमो यस्य मे जातः ॥ २५ ॥ इति देवोऽर्हन्नीतः स्तृतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया मृतदेवपदाब्जभृङ्गेण ॥२६॥ , ( रचना - सं. २०२८) विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy